________________
( ८८ )
भुवनदीपकः । मूर्तिसप्तमयोः क्रूराभावे लग्नपतिव्र्व्यये ॥ षष्ठेऽष्टमे द्वितीये वा तदा दुर्गे न भज्यते ॥ १२२ ॥
सं० टी० - मूर्तिसप्तमयोः स्थाने यदि क्रूरग्रहो न भवति, लग्नपतिर्व्यये द्वादशे भवति, अथवा षष्ठेऽष्टमे द्वितीये भवति तदा दुर्गभंगो न भवतीति ॥ १२२ ॥
अर्थ - यदि लग्न और सप्तम इन दोनों स्थानोंमें से किसीमें पापग्रह न हो और लग्नका स्वामी बारहवें, छठे, आठवें या दूसरे स्थानमें हो तो किलाभंग नहीं हो ॥ १२२ ॥
अपरेष्वपि चौर्यादियोगेष्वेवं विना ग्रहम् ॥ मूर्ती सर्वत्र वक्तव्यं चौर्यप्रश्ने शुभग्रहे ॥ १२३ ॥ मूर्ती सति न चौर्य स्यात्सफलं केवलं भवेत् ॥ शरीरे मुख्यकुशलं शुभयोगप्रभावतः || १२४ ||
सं०- टी० - विशेषमाह - अपरेषु विवादशत्रुहननादिषु कार्येषु मूर्ती क्रूरग्रहः विलोकनीयः, जयदायी भवति न परः सौम्यः । तथा चौर्यप्रश्ने यदि क्रूराऽभावेन मूर्ती शुभग्रहो भवति तदा वक्तव्यं चौर्यस्य लाभो न भविष्यति । किंतु मध्येऽपरो लाभो भविष्यतीति । तथा अस्य चोरस्य शरीरे कुशलं शोभनं ग्रहप्रभावात् ॥ १२३ ॥ १२४ ॥
"
"Aho Shrut Gyanam"