________________
समराङ्गणसूत्रधारे महारत्नपुनः(१) कार्यो भूमिकापरिवर्तने । भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ।। ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् । अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥ चन्द्रिका भागमेकं च द्वौ भागौ चेत् ++++। हंसध्वजः कृतो येन वल्लभः पद्मजन्मनः ॥ स याति विविधैर्यानेदेहान्ते वसु+गतिम् ।।
हंसध्वजः ॥ अथ लक्ष्मीधरं चूमो यं कृत्वा विजयं नरः ॥ राज्यमायुष्यपूजां च गुणानाप्नोति चैश्वरान् । चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥ कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः । चतसृष्वपि दिक्षु स्यात् त्रिभिर्भागभ्रमन्तिका ॥ द्विपदा बाह्यभित्तिः स्याच्छभा कार्या चतुर्दिशम् । कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे । द्वयंशानि तानि विस्ताराद दशशृङ्गाणि दि(क्रये?क्वये)। षदशालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ।। याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः । तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥ विस्ताराद् द्वि(गुणा सासः?णो यामः प्रासादस्यास्य चोच्छ्रयः । स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ।। ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् । उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत ।। भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः । उच्छ्येण विधातव्यः सिंहकर्ण(चच)तुष्पदः ॥ दश शृङ्गाणि कुर्वीत घण्टा(पकं?)च (विक्रीदिकत्र)ये । चतुर्दशांशविस्तारा पञ्चगा(१) मूलमञ्जरी ॥ 1. 'महान् यत्नः पुनः' इति स्यात् Irut Gyanam"