SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । द्विपदं कलशं कुर्यात् साब्जपत्रं सपल्लवम् ! आरोग्यं स्यात् पुरोदेशे कारिते कमलोद्भवे || आयुः श्रीवृद्धिपुत्राः स्युरपयानां (?) च संख्यया । कमलोद्भवः । हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥ सेवितं सुरसङ्गेन वल्लभं पद्मजन्मनः । विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥ आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत् । एवं गर्भो विधातव्यलाद्यस्य (जगतालुभि: १) ॥ द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः । भद्रं पञ्चपदं कार्य पदार्थमुदकान्तरम् ॥ द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम् । मध्ये तुच्छाद्यकं कुर्याद वातोच्छ्रायं (?) द्विविस्तृतम् ॥ "Aho Shrut Gyanam" ༣༦ कुर्याद्भागं सविस्तारं तोरणं चतुरुन्नतम् | वरालमकरैर्युक्तं स्तम्भेषु स्यात् तथेल्लिकाः || पुरस्तान्मण्डपं प्राज्ञो (रवायरिचये ) न्मानपूर्वकम् । ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद भागविंशतिः || मेखलावेदिकाजङ्काः शङ्खवर्धनवन्मताः । कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः | चतुष्किका पञ्चपदा वराटीघटयान्विता । कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा || कोणशृङ्गोर्द्वयः (?) कुर्यादष्टांशां मूलमञ्जरीम् । उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥ प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा । अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥ १. ' भागोच्छ्रायम्' इति स्यात् । २. कर्णशृङ्गोर्ध्वतः' इति पाठ्यं भाति ।
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy