________________
६६
समराङ्गणसूत्रधारे
षद्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् । तद्विस्तारदशां (शैः ?शे) स्वात् षडभिः स्कन्धस्य विस्तृतिः ॥ ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः । भागेनाण्डकमुच्छ्रायो भागेनार्घे ( तु न ) चन्द्रिका ||
द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् । प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् || यः करोति स लोकेऽस्मिन् (+) नागाधिपो भवेत् । लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥
विशालः ॥
मोथल (क्ष्म क्ष्मी) दयितं प्रासादं कमलोद्भवम् । सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥ चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च । कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भ (वे? जे ) त् । भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपट्टिकाम् | कर्णं षोडशभिः (काकु)र्यादम्भोजसदृशाकृति (म्) | पञ्चभिर्भाजिते सीनि गर्भो भागत्रयं भवेत् । अधस्तादा (समत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् || कृत्वा (द्विगुणमूर्ध्वानद्विंशत्या?) प्रविभाजयेत् । तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥ वेदी जङ्घा च माला च स्याद् यथा शङ्खवर्धने | तदूर्ध्वं पद्मकूटा (निदि) चोन्नतं पद्मपत्रवत् || भूमिका (:) पञ्च कर्तव्या (:) पदहीना (द्यय) थोत्तरम् । (देविवेदि) का तस्य कर्तव्या विकासिशतपत्रवत् ॥ पादोनभागो ग्रीवा च सपादं पदमण्डकम् । चन्द्रिका चैव भागेन विकासिकमलाकृतिः ॥
१. 'नरो' इति स्यात् । २. 'सनं तस्य' इति स्यात् । ३. 'द्विगुणमूर्ध्य बिंधया' इति पठनीयं स्यात् ।
"Aho Shrut Gyanam"