SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ मेर्वादिविंशिका नाम सप्तपश्चाशोऽध्यायः । ऊर्च सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् । अण्डकं द्विपदं कार्य भागेनैकेन कर्परम् ।। कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् । लक्ष्मीधराख्यं प्रासादं यः कुयोद वसुधातले ।। अक्षये स पदे तत्वे लीयते नात्र संशयः । लक्ष्मीधरः ॥ महावज्रमथ ब्रूमः (प्रात्यपापहरं शुभम् ॥ प्रासादे का(रये?रिते) यत्र सुरेन्द्रः परितुष्यति । अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ।। उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया । स्वविस्तारस्य मुत्रेण(++क्षेत्र)मालित्य वर्तुलम् ।। कोणेषु लाञ्छितं कृत्वा भागैः पत्रिंशता भजेत् । द्विपदाः कर्णिकाचेह कायो द्वादशसंख्यया ॥ कर्णिकाद्वयमध्ये तु स्तम्यो भागे च वर्तुलः । शतपत्राकृतिः कायो द्वौ भागा मधेमानतः ॥ अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् । स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ।। कुर्यादालेखमुपरि कर्णिकायाः गुशोभनम् । कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता (?) || स्याद भागा?दया ग्रीवा विस्तारेण चतुष्पदा । अण्डकं सार्धभागेन विधातव्यं सकर्परम् ।। भागद्वयं तु कलशः शृङ्गकणेः सपल्लवैः । यः करोति महावज्रं प्रासादं पुरभूषणम् ।। तुष्टो दिवि सदाम्पत्यो रमते सोऽप्सरोगणः । महावज्रः ।। रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥ अप्सरोगणसंकीर्ण कामदेवस्य मन्दिरम् । अष्टभागीकृते क्षेत्रे समभागे समायते ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy