________________
समराङ्गणसूत्रधारे द्विपदं कर्णकूटं स्याद वारिमार्गसमन्वितम् । आलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥ भागिकी बाह्यभित्तिस्तु शेषं गर्भ प्रकल्पयेत् । मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ।। नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः(१) । पल्लवैनोगबन्धैश्च सालभञ्जिभिरन्विताः ॥ खेल्लिका तत्र कर्तव्या मकरास्यविनिर्गता। चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् (१) ।। सदृशं प्रथमं कार्य भवनं कर्मयुक्तिमत् । द्वितीयं भवनं कार्य बाह्यालि(कन्दविवर्जितम् ।। शेष कर्म तथा कार्य प्रथमायां यथा (भवतिः) । तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ।। खेलिकातोरणन्यस्ता(:) समुखाश्च वरालकाः । स्तम्भानां कुटकान् पूर्वान् सिंहक(र्ण?)श्चमध्यतः ॥ म(ध्य?)लच्छाद्यानि(वायाधः) भागोच्छ्रायान्यनुक्रमात् । त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ।। घण्टां च भागिनी कुर्याद(बें नामलसारकीम् । चन्द्रिको भागपादेन द्विभागां कलशोचितिम् ॥ एवंविधं यः कुरुते प्रासादं रतिवल्लभम् । सन्तोषयति कन्दर्प स्याजनेषु स पुण्यभाक् ।।
रतिदेहः ।। सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् । धनपुत्रकलत्राणि कृते यत्राप्नुयानरः ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । गर्भ विभागं कुर्वीत भित्तिर्भा?भा,गेन शोभनम् ।। भद्रं द्विभागविस्तारं भागनेकन निर्गतम् । कर्णमेकेन भागेन कुर्यात् प्रतिदिशं बुधः ॥
"Aho Shrut Gyanam"