________________
मेदिविंशिका नाम सप्तपञ्चाशोऽध्यायः । अस्योर्च द्विगुणं कुर्यात् षष्ठभागविभाजितम् । भागे च वेदिकावन्धं जवा सार्धपदोन्नता ॥ मेखलान्तरद्रत्रे च पादहीनं पदं मते । स्यादुच्छ्रितीश्चामा(?) जङ्घा पादोनं पदपश्चकम् ।। त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता । पदाधमण्डकं प्राहुः पदपादेन चण्डिकाम् (१) । भागस्यार्धेन कलशसमुच्छायो मतः समः।। +++ गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः(१) ॥ यः सिद्धिकामं कुरुते सर्वपापविमोचनम् । सर्वेऽस्य कामाः सिध्यन्ति येकेचिन्मनसि स्थिताः ॥
सिद्धिकामः॥ अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः । यो भक्तथा कारयत्येनं स चिर दिवि मोदते ॥ भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः । चतुर्भागे भवेद् गर्भो भित्तिं भागेन कल्पयेत् ।। अन्धारिका तु भागौ द्वो बाह्यभित्तिस्तु भागिकी । त्रि(भि) गैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥ द्विगुणं कथितेत) चोर्ध्वमानं घण्टाण्डकान्वितम् । प्रमाणेन विधातव्यो दश भागास्तुलोदयः ।। त्रिपदो वेदिकाबन्धो जङ्घा स्यात् षडंशकः । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ।। पदत्रयेण (सावं शृङ्ग कलश चाण्डकम् ) । शिखरा विंशतिः कार्याः (सभित्ताःसंभिन्नाः) सर्वमण्डपैः ।। शादधो विधात(व्याव्य) मल्लच्छाधं मनोहरम् । एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ।। छायकैः पञ्चभिः कार्यो मध्ये प्रासादनायकः । घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥ १. 'स्वादूर्व भङ्गं सकलशाकम्' इति स्यात् ।
"Aho Shrut Gyanam"