________________
समराङ्गणसूत्रधार घण्टायाः सार्धभागेन ग्रीवायाश्च पदा(दिधि)का । कर्तव्यामलसारी तु (पादोनांशायबण्डिकाम्) ।। द्विपदः कलशः कार्यो बीजस्वरसमन्वितः । पञ्चघण्टाटतं कृत्वा विमा(नान) पञ्चचामरम् ।। (अतीतविस्त्वयान सर्वान् लोकः प्रामोति सम्भव?) ।
पञ्चचामरः॥ नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ।। य एनं भक्तितः कुर्यात् स भवेदजरामरः । चतुरश्रे समे क्षेत्रे चतुभोगविभाजिते । भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् । भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ।। कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् । दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥ विस्तारसदृशोच्छ्राया कर्तव्या पूर्वभूमिका । वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + +(3) ।। भागेन राजसेनं स्याद वेदिर्भागद्वयेन च । भागेन चन्द्रालोकः स्यादनासनपट्टकः ।। स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् । पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः॥ नानासधैः पल्लवैश्च चारुकर्मकराननैः । द्वितीया भूमिका कार्या स्तम्भैः पोडशभिर्युता । एवं भूमौ द्वितीयायामपि कर्म विधीयते । स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतु(र्थिीष्कि)का ।। नन्दिघोषः कृतो येन (मूयं तेजो?) स जायते । कर्मक्ष(या तुतुं त् तनुं) त्यक्त्वा पामोति परमं पदम् ॥
नन्दिघोषः। 'दुर्वतेजाः ' इति ला : Aho Shrut Gyanam"
-
--