________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । प्रासादमभिधास्यामो मनूत्कीर्ण महा(द्रुद्भुतम् । विमृश्य बुद्धया निपुणं निर्मितं प्राक् स्वयम्भुवा ॥ क्षेत्रे षड्भागविस्तारे ग(भ) भागचतुष्टये। कुर्वीत वृत्तं मध्ये च नवभिटृत्तिमालिका(१)॥ अष्टो (च) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्ष वा । ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥ (छाद्ययावद्विधातव्या तत्सार्धा कपञ्चकम् ?) । भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥ सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः । भागद्वयं ततः सार्धं कायर्या जङ्घासमुच्छ्रितिः ॥ भागाध हीरकं कुर्यान्मनोज्ञं क(तिर्णि)कान्वितम् । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः । मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ।। षदभागविस्तृतं तस्य + पड्भागसमुच्छ्रितम् । यावन्मात्रा(चरेत्?वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥ त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् । ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥ पादहीनं पदं कुर्यादण्डकं मनुसंभवे(?) । चन्द्रिका भागपादेन पादोनं (कुशलः कलश:) पदम् ॥ पासादं मनसाप्येवं मनुकीतः?ण)करोति यः। स (गंध्या गत्वा) भवनं शम्भोर्माणपत्यमवाप्नुयात् ।।
मानकीर्णः(1) ॥ अथ सुमभनामानं प्रासादमभिदध्महे । यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कुयोच्चतुष्पदं गर्भ विस्तारो यामतः समः ।। 1. मनूत्कीर्ण' इति पूर्व ब्यपदिष्टः ।
"Aho Shrut Gyanam"