________________
मेवादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । पदार्धमासनं कार्य यंशं चन्द्रावलोकनम् । ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥१०० ॥
(पञ्चपदान्वितः:) भरणं स्तम्भशीर्ष च पदेन स्यात् समुच्छ्रितम् । छाद्यकेनावृतं कुयोत पदेनैकेन पट्टकम् ॥ १०१॥ द्विपद(स्थः प्रश्छाद्य)विस्तारः पदेनैकेन लम्बनम् । ऊध्वमन्तरपत्रस्य कथयामो यथास्थितम् ॥ १०२ ॥ चतुष्पदेषु कर्णेषु ये कर्णाः पदिकाः स्थिताः । तेषु (पिखरकाः!) कार्या विस्तारोच्छ्रायतः पदम् ॥ १० ॥ कलशोनं तथा ग्रीवा पदार्धेन समुच्छ्रिता । द्विपदः सिंहकर्णस्तु विस्तारोच्छ्रायतः समः ॥ १०४ ॥ (शिखिरोऽधः) विधातव्या त्रिपदी कर्णमञ्जरी । ऊर्ध्वं च त्रिपदा (ससा) स्याद् द्विपदा स्कन्धविस्तृतिः ॥ १०५ ।। सार्धमागेन कर्तव्यं सग्रीवं कलशाण्डकम् ।। सिंहप्रासादवत् कर्णा विधेयाः शुभलक्षणाः ।। १०६ ॥ मूलमानेन विस्तीर्णा नि? गूढस्योपरि स्थिताः । द्वितीयश्च तृतीयश्च तदूर्ध्वं च समुच्छ्रितः ।। १०७ ॥ कर्णस्थकलशादूर्ध्वं कर्तव्या मूलमञ्जरी।। विस्तारो दशभा(गांशानुगःस्यादु)च्छायो द्वादशांशकः ॥ १०८ ॥ लताभिः पञ्च(वि?)भियुक्ता विचित्रैश्वापि कर्मभिः । षट्पदोऽस्य स्मृतः स्कन्धो ग्रीवा चास्य चतुष्पदा ॥ १०९ ।। विस्तारेण समा ख्याता पादोन पदमुच्छ्रिता । अण्ड(कांक) साध्रिभागेन (भविषड्भागविस्तृतम् ॥ ११ ॥ पादोनं चन्द्रिकाभागं कलशश्च द्विभागिकः। प्रासादं ये सुभद्राख्यं कारयन्ति सुलक्षणम् ।। १११ ।। फल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः ।
सुभद्रः ।। सर्वपापक्षयकरत्रिषु लोकेषु कीर्तितः ॥ ११२ ॥ निखराधो' इति स्यात् ।
"Aho Shrut Gyanam"