SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ૮ समराङ्गणसूत्रधारे रिपुकेसरिसंज्ञोऽयं प्रासादः परिकीर्त्यते । चतुरश्रीकृते क्षेत्रे भागविंशतिभाजिते ॥ ११३ ॥ द्विपदा बाह्यभित्तिः स्यान्मध्यभित्तिश्च ताव (ता.ती) । भ्रमण द्विपदा कार्या विस्तारात् सर्वदि (ग्रताः ?ग्गता ॥ ११४ ॥ गर्भोऽविस्तृतः कर्णः (+कन्द ? ) सार्धभागिकः । चतुर्भागायतं भद्रं कुर्याद भागेन निर्गतम् ॥ ११५ ॥ ११८ ॥ resist समुद्दिष्ट विधातव्यश्चतुर्दिशम् । पार्श्वयोश्च प्रतिरथौ कार्यो सार्धपदायतौ ॥ ११६ ॥ पदार्धेन विनिष्क्रान्तौ + + + विविधेष्वपि । कर्णायामचतुर्भागो द्विपदं कर्णभद्रकम् ॥ ११७ ॥ पदार्धेन विनिष्क्रान्तं बाह्यकर्णे व्यवस्थितम् । पद ( 12 ) पादेन विस्तीर्ण प्रविष्टं पदमात्रकम् ॥ कार्यं जलान्तरं मध्ये कर्णस्य तिलकस्य च | व्यंशस्तिलकविस्तारः पदेनैकेन निर्गमः ॥ ११९ ॥ सुवर्णिता: स्युस्तिलका भद्रकोणव्यवस्थिताः । अष्टभागं भवेद् भद्रं पदत्रयविनिर्गतम् ॥ १२० ॥ चतसृष्वपि तद् दिक्षु कर्तव्यं स्तम्भभूषितम् । ऊर्ध्वमानमथ ब्रूमः प्रतिपत्रं सुखावहम् ॥ १२१ ॥ ऊर्ध्वप्रमाणं द्विगुणं कर्तव्यं द्विकलाधिकम् । भागैरे कोनविंशत्या मध्ये कार्यस्तलोदयः ॥ १२२ ॥ एभ्यो मध्याद विधातव्या वेदीबन्धाः सुशोभनाः । द्विपदः कुम्भकः सार्धं पदं तु कलशो भवेत् ।। १२३ ॥ मेखलान्तरपत्रे तु कार्ये सार्धपदोन्नते । नवभागोन्नता जङ्घा द्विपदा रूपपट्टिका ॥ १२४ ॥ मेखलान्तरपत्रे तु विदधीत पदद्वयम् । मध्यं स्यात् षोडशपदं (मानायाः)खुर (केको) ऽस्य च ।। १२५ ।। "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy