________________
.
.
समराङ्गणसूत्रधारे सुभद्राख्यमथ ब्रूमः प्रासादं भद्रभद्रकम् । सुभद्रोऽयमतः प्रोक्तो भद्रे भद्रे यतोऽन्वितः ॥ ८७ ॥ चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते । गर्भः षोडशभिर्भागः (स्क क)न्दः षट्पदविस्तृतः ॥ ८८ ॥ भित्तिः स्यात् पदविंशत्या तत्र कन्दसमाः (सीस्म)ताः। कर्णाः प्रत्यङ्ग(कोका)न्येषां प्रत्येकं पदविस्तरात् ॥ ८९ ॥ द्वथंशो मध्यगविस्तार उभयोर्निर्ग(ताम): पदम् । द्वयंशः सरसि(१)विस्तार आक्रान्तपदनिर्गमैः ॥ ९० ॥ द्विपदा बाह्यभित्तिः स्याद् विस्तारेण सुशोभिता(:)। चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥ ९१ ॥ निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृतम् । कर्णे कोणा(सुस्तु) पदिका दिक्षु सर्वासु शोभनाः ॥ ९२ ॥ निगढविस्तरः कार्यः सा(ध)पञ्चपदोन्मितः । द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥ ९३ ॥ सलिलान्तरकं कुर्यादन्तरे कर्णभद्रयोः । प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥ ९४ ॥ ऊर्ध्वमानमर्थतस्य यथावदभिधीयते ।। राजपीठं विधातव्यं भागार्धनातिसुन्दरम् ॥ ९५ ॥ ऊर्श्वभागेन खुरकपीठं स्याचतुरंशकम् । द्विपदः कुम्भकोत्सेधः पादोनं (सोम स्यान्म)मुरकम् ॥ ९६ ॥ भागार्धनान्तरं पत्रं पादोनांशेन मेखलाः । षडभागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाः() ।। ९७ ॥ मेखलान्तरपत्रे च प्रत्येकं पदके स्मृते । पट्टादधरखुरादूर्ध्व भागा सैकां दशान्तरम् (१) ॥ ९८ ॥ राजासनं पदं प्रोक्तमुत्से(धंधे)नातिशोभनम् ।
अर्धनात्यधिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥ ९९ ॥ 7. पवादधः खुरादूर्व भागास्त्वेकादशान्तरम्' इति स्यात् ।
"Aho Shrut.Gyanam"