________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । प्रीवाण्डके विधात(व्यं?व्ये भागेनार्धन कुम्भकः । सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥ ७४ ॥ इत्थं पश्चाण्डकाः कर्णे हेमकूटेषु कीर्तिताः । अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥ ७५ ।। अलिन्दस्योर्ध्वभाग(स्तं?स्थं, सिंहकर्ण मनोरमम् । सिंहकर्णे द्विभाग(स्थो?स्थां) द्वादशांशकविस्तृत ताम्) ॥ ७६ ।। उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम् । सप्तशिविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥ ७७॥ अण्डकं सार्धभागेन चन्द्रिकार्धपदा स्मृता। आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥ ७८ ॥ विस्तारो मूलमजर्या भागविंशतिसंमितः । उच्छ्रायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥ ७९ ॥ पञ्चभौमस्तु कर्तव्यो यथा चारुः स जायते । प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥ ८ ॥ परा परार्धभागेन न्यूना न्यूना विधीयते । स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥ ८१ ।। विभज्य दशधा कुर्याल्लताः पञ्चातिसुन्दरीः । हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ।। ८२ ॥ (म?अ)न्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः । ईदृशी मञ्जरी(हे?है)मे विधेया कूटनिर्गता(!) ।। ८३ ॥ ग्रीवा सार्धपदा प्रो(क्तोक्ता) विस्तारादष्टभागिका(१) । अण्डकं द्विपदोत्सेधमेकादशपदायतम् ।। ८४ ॥ . दण्डिका सार्धभागो(चचा विस्तारा (नम्न)वभागिका । त्रिपदः कलशः कार्यो विस्तारेणोच्छ्येण च ॥ ८५ ॥ एवंविधं विधत्ते यो हेमकूटं मनोरमम् । स क्रीडति पुमान् स्वर्गे यावत् क्रीडा पिनाकिनः ॥ ८६ ॥
हेमकूटः ।।
"Aho Shrut Gyanam"