________________
समराङ्गणसूत्रधारे अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम् । भागेनैकेन खुरके न मध्ये पूर्वमानयोः ॥ ६१ ॥ अत ऊर्ध्वं पुनर्ब्रमः पादमानमनुक्रमात् । । सप्तभागोन्नतं कुर्याद वेदीव(न्धे?न्धं) सुशोभनम् ।। ६२ ॥ तस्याध कुम्भकस्या (?) भागेन कलशोन्नतिः । पदार्धनान्तरं पत्रं यथाशोभं विधीयते ॥ ६३ ॥ सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना । दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ।। ६४ ॥ अस्योपरि विधातव्यं भर(णै?णं) द्विपदोच्छ्रितम् । मेखलान्तरपत्रे तु विधीयते पदत्रये ॥ ६५ ॥ अधस्तान्मेखलायास्तु खुरकस्य तथोपरि । एकोनविंशतिं भागानन्तरं संप्रचक्षते ॥ ६६ ॥ कर्मप्रमाणमेतस्य पृथङ् मध्येऽभिधीयते । द्विपदं (राजासेनं स्याद्वेदा++ चतुष्पदा (१) ॥ ६७ ॥ भवत्यासनपट्टस्य कल्पना भागमानतः । साधं भागद्वयं कायेमूचे चन्द्रावलोकनम् ॥ ६८ ।। स्तम्भानासनपट्टान युज्यादष्टभागिकान्(?) । भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥ ६९ ॥ द्विपदश्चार्धपट्टः स्याच्छाद्यकेन सुशोभितः । त्रिपदं छाधकं तत्र विस्तारेण प्रकीर्तितम् ॥ ७० ॥ एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम् । ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ।। ७१ ॥ षट्पदे कर्णविस्ता(रा?रे) सप्तांशा कर्णमञ्जरी । ग्रीवामपदं कुर्यात् पदमेकं तथाण्डकम् ॥ ७२ ॥ अर्धांशा चन्द्रिका च स्यादेकांशः कलशोच्छ्रयः । अस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥ ७३ ॥ राजासनं स्याद् वेदी चास्य चतुष्पदा' इति स्यात् ।
"Aho Shrut Gyanam"