________________
१३
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । श्रीधरं कारयेद् यस्तु कीर्त्यर्थमपि मानवः । इहैव ल(वसतः?)भते सौख्यममुत्रेन्द्रत्वमाप्नुयात् ॥ ४८ ॥ भोगान् भुक्त्वा पुमान् स्वर्ग नीयते च परे पदे । सपापविनिमुक्तः शान्तश्च स्यान्न संशयः ।। ४९ ॥
श्रीधरः ॥ हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम् । सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥ ५० ॥ चतुरश्रीकृते क्षेत्रे षड्विंशत्यंशभाजिते । तत्र स्युः षड्पदाः कर्णाः शाला द्वादशभागिकाः ॥५१॥ निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम् । अष्टभागायता भूयो निर्गमश्च त्रिभिः पदैः ॥ ५२ ।। चतुःस्तम्भाश्चतुष्पा(वर्धा) दिक्षु सर्वास्वयं विधिः । कर्णशालान्तरं कार्य पदेनकेन विस्तृतम् ॥ ५३ ।। प्रविष्टं तत् पदेनैकं तदेवात्र जलान्तरम् । पदेन कर्णे कोणः स्यात् प्रत्यङ्गे पदविस्तृते ॥ ५४ ॥ निर्गते चार्धभागेन सममाने मनोरमे। द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥ ५५ ॥ चतु(क?ष्कर्णेषु कर्तव्यं (मानपेमेवंधुनु?) धीमता । बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ।। ५६ ॥ चतुःषष्टिपदो गर्भस्तद्भित्तिस्त्रिपदा भवेत् । त्रिपदं कर्णमानं स्याद् वारिमार्गेण संयुतम् ॥ ५७ ॥ पदार्ध वारिमार्गः स्यात पदमस्य प्रवेशकः ।। शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ।। ५८ ॥ चतुर्भागायता भद्रं पुनर्भागार्धनिर्गतम् । तलन्या(सौ.सो) हेमकूटे विभक्तपदनिश्चयात् ॥ ५९ ।। अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम् । ऊर्ध्वं (तु) हेमकूटस्य द्विगुणं स्यात् कलाधिकम् ॥ ६०॥ १. :मानमेवं तु' इति स्यात् ।
"Aho Shrut Gyanam"