________________
समराङ्गणसूत्रधारे तेषां च तुल्यता कार्या विस्तारादुच्छ्यादपि । चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥ ३५ ॥ सिंहकर्णस्य विस्ता(रार)मानं स्यादष्टभागिकम् । षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ।। ३६ ।। गुण(द्वा?ता)रसमायुक्तः शूरसेनाभिधानकः । सिंहकों विधातव्यः सर्वकर्मसमाकुलः ॥ ३७॥ सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत् । विस्तारादष्टभागासावुच्छ्रा(यन?यान्न)वभागिका ।। ३८ ॥ लतापञ्चकसंयुक्ता मञ्जरी स्यात् सुशोभिता । ग्रीवा पादोनभागा स्यादण्डकं भागमुच्छ्रितम् ॥ ३९ ॥ चन्द्रिका चार्धभागेन कलशश्चैव भागिकः । कूटमू(भिं) द्वितीया स्यादुरोमञ्जरिका तथा ।। ४० ।। (भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता?) । भागमेकं भवेद् ग्रीवा सार्धभागेन चाण्डकम् ॥ ४१ ।। कपरि(?) चार्धभागेन कलशश्च द्विभागिकः । उरःशिखरका(न्य?ण्य)ष्टौ भवन्त्येवं चतुर्द?र्दि)शम् ॥ ४२ ॥ द्वितीयकूटकस्योर्चे कर्तव्या मूलमञ्जरी । भागपोडशविस्तारा पदाष्टादशको द(यःया) ॥ ४३ ॥ स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि । ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥ ४४ ॥ कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च । . द्विपदं (चम)ण्डिकायुग्मं कार्य सामलसारकम् ।। ४५ ।। तस्योपरि स्यात् कलशो वर्तुलत्रिपदोच्छ्रितः। तोरणैर्मकरैः पत्रैः साग्रैश्च स(वाम)रालकैः ॥ ४६ ॥ हस्तिमुण्डैः समाकीर्णम(धीप्स)रोगणभूषितम् । ईदृशं श्रीधरं कुर्यात् सर्वालङ्कारभूषितम् ॥ ४७॥ १. 'भागदादाविस्तीर्णा साधानत्रिंशतोच्छ्रिता' इति स्यातू ।
"Aho Shrut Gyanam"