________________
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । विभागस्तादृशोऽस्य स्याद बाह्यशृङ्गस्य यादृशः। भित्तिकन्दान्तराले च कार्य षड्दारुकं बुधैः ॥ २२ ।। इतिकातोरणयुतं चतुर्दिक्षु मनोरमम् । पुरतो मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ।। २३ ॥ भागैः पञ्चाशता कुर्यादस्य मानमिहोर्ध्वगम् । एषां मध्ये सविंशत्या प्रविधेयास्तुलोदयाः ॥ २४ ॥ तेषां मध्येऽशकैः षड्भिर्वेदीवन्धो विधीयते । नवधा भाजिते तत्र वेदीवन्धे समैः पदैः ॥ २५ ।। कुम्भश्चतुष्पदस्तत्र द्विपदस्तु ममूरकः । भागेनान्तरपत्रं स्यान्मेखला द्विपदाः स्मृताः ॥ २६ ॥ मूलभागास्तु ये तैः स्याज्जा दशभिरुच्छ्रिताः । द्विपदा मेखला प्रोक्ता द्वयंशे चान्तरपत्रके ॥ २७ ॥ अधस्तादूर्ध्वपक्षीदृस्य तलपट्टस्य गेपरि । षोडशांशा विधातव्यास्तत्रैतत् कर्म वाचेयेत्(?) ।। २८ ॥ भागेन रूपधारा स्यात् सार्धा सार्धा च सेनकम् () । वेदी भागत्रयोत्सेधा + द्वेनासनपट्टकः ॥ २९ ।। (सोर्ध्वासार्थ)भागेन कर्तव्यमूलचन्द्रावलोकनम् । आसनस्योर्ध्वतः स्तम्भाः सार्धपश्चपदाः स्मृताः ॥ ३० ॥ भागेनोच्छालक कार्य (शाषःशीर्ष) सार्धपदोन्नतम् । पट्टः स्याद् द्विपदोत्सेधत्रिपदश्छायविस्तरः ॥ ३१ ॥ लम्बनं तु लदर्धेन यथाशोभमथापिवा । अविनान्तरः१नान्तर)पत्रस्य क(स्याप्य तेऽप्ययथाक्रमम् ।। कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः । विस्तारः स्याचतुर्भागस्तेषां पहभाग उच्छ्यः ।। ३३ ।। कर्णा घण्टासमायुक्ताः कूटमानं विधीयते । तत्र मृत्युक्रमात् (1) कुर्यादेकैकं च तदूर्ध्वतः ॥ ३४ ॥
"Aho Shrut.Gyanam"