________________
समराङ्गणसूत्रधारे वराटः सुमुखः शुद्धश्चत्वारिंशादितीरिताः । मिश्रकास्तु दश प्रोक्ता मिथः कर्मप्रभेदतः ।। ९ ।। विज्ञेयो नन्दसंज्ञश्च महाघोषस्तथापरः । दृद्धिरामाभिधानश्च प्रासादोऽन्यो वसुन्धरः ॥१०॥ मुद्गकोऽथ बृहच्छालस्त(था?थैव च सुधाधरः । संवराख्यः शुकनिभस्तथा सर्वाङ्गसुन्दरः ॥ ११ ॥ पञ्चाशदेवं कथिता प्रासादानां यथाक्रमम् । इदानी लक्ष्मतो ब्रूमः श्रीधरं सर्वकामिकम् ।। १२ ॥ वल्लभं सर्वदेवानां पुण्यानां कारणं परम् । चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।। १३ ।। द्वादशाखिलकोणेषु कर्णशृङ्गाणि योजयेत् । विस्तारं च चतुभांगमेकेकस्य विनिर्दिशेत् ॥ १४ ॥ परस्परं च (निष्कोऽसौ?विष्कम्भो) द्विपदोन विधीयते । द्वयंशानि कार्णिःण)भद्राणि निर्गमश्वार्धभागिकः ॥ १५ ॥ 'कर्णकर्णपदेन्यस्यात् पदार्धाधेत(?)विस्तृतः। वारिमन्नो विधातव्यो मध्यगः पूर्वमानयोः ॥ १६ ॥ भद्रस्य मानमुद्दिष्टं विस्ताराद् दशभागिकम् । निर्गमश्च त्रिभिर्भागैः समसूत्रसमाहितः ।। १७ ।। द्विपादा बाह्यभित्तिस्तु द्विपादा चान्धकारिका । भवेच्छतपदः कन्दो गर्भः षड्विंशदंशकः ॥ १८ ॥ द्विपदः कर्णकन्दश्च प्रत्यङ्ग पदिकं स्मृतम् । निर्मतं चार्धभागेन चतुर्दिक्षु व्यवस्थितम् ॥ १९ ॥ भागेन निर्गता कार्या शाला चास्य चतुष्पदा । अभ्यन्तरं वाह्यभित्तेः कन्दस्य च तथा बहिः ॥ २० ॥ उभयोरन्तरं कार्य विस्तारात् पञ्चभागिकम् । अन्तरालं च कुर्वीत शृङ्ग तच्च चतुष्पदम् ॥ २१ ॥ * 'कर्णः कर्णपदेइन्यः स्यात् पदार्धाधैन' इति स्यात् ।
"Aho Shrut Gyanam"