________________
मेदिविंशिका नाम सतपञ्च (शोऽध्यायः । ३९ प्रासादा रुचकादयोऽत्र ललिताः प्राग विंशतिः पञ्चयुक् तावन्तश्च ततोऽनु केसरिमुखाः(स)न्धारकाः कीर्तिताः । मिश्राख्या नव पञ्च चानुकथितास्तद्वनिगृढारख्यया षष्टिः स्याच्चतुरन्वितेति विदिता सैषा भवेत् सम्पदे ॥ ३१२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचित समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
रुचकादिचतु षष्टिपासादको नाम
षट्पञ्चाशोऽध्यायः ॥
अथ मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः ।
अथान्यान् कथयिष्यामः समासात् सूक्ष्मलक्षणान् ।। पञ्चाशतमिहोत्कृष्टान् प्रासादाबू श्रीधरादिकान् ॥ १ ॥ श्रीधरो हेमकूटश्च सुभद्रो रिपुकेसरी । पुष्पो विजयभद्रश्च श्रीनिवासः सुदर्शनः ॥२॥ भगवत्याः प्रिया ह्येते तथा कुसुमशेखरः । देवस्य शम्भोर्दयितः प्रासादः सुरसुन्दरः ॥ ३ ॥ नन्द्यावर्तश्च पूर्णश्च सिद्धार्थः (सिरवीशङ्खवर्धनः । त्रैलोक्यभूषणश्चेति पद्म(सुस्तु) ब्रह्मणः प्रियः ॥४॥ पक्षबाहुर्विशालश्च तथान्यः कमलोद्भवः । हंसध्वज इति ख्याताः प्रासादा ब्रह्मणः प्रियाः ॥ ५॥ लक्ष्मीधरा(क्षरख्य): प्रासादो वस्त?स)तौ मधुविद्विषः । महावज्रो रतितनुः सिद्धकामस्तथापरः ॥६॥ पञ्चचामरसंज्ञश्च नन्दिघोषाख्य एव च । अनुकीर्णः सुमभश्च सुरानन्दोऽथ हर्षणः ॥ ७ ॥ दुर्धरो दुर्जयश्चैव त्रिकूटो नक्शेखरः । पुण्डरीकः सुनाभश्च महेन्द्रः शिखिशेखरः ।। ८ ।।
"Aho Shrut Gyanam"