SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३८ समराङ्गणसूत्रधारे तेषामुत्तरतो (नू ही) नं य (दिदी) च्छेद् देवतालयम् । मासादपदमानेन नवपत्रिंश (दाद) न्तरे ।। २९९ ।। प्रासादं कारयेदन्यं ममैवेधविवर्जि (तान् ? तम्) | पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ।। ३०० ॥ महामर्माणि चत्वारि कुर्याद येत्ताघतोत्तरे (?) | क्षणमध्येषु सर्वेषु द्रव्यमेकं न दापयेत् || ३०१ ॥ तदा युग्म ++++ वैधमर्म विवर्जयेत् । क्षणमध्ये यदा द्रव्यमेकं मोहात् प्रदीयते ।। ३०२ ॥ कर्तृकारकयोः पीडा भवेत् पूजा न तादृशी । तस्मात् सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ।। ३०३ ॥ मर्माणि वर्जयेव यत्नात् प्रासादस्य समीपतः । अथ मर्मवियु (क्तोक्तं) यः प्रासादं कर्तुमिच्छति ॥ ३०४ ॥ प्रासादतः सदा तेन विधेयं महदन्तरम् । (प्रासादां तूत्तरं कवः) कार्य फलपुष्पैर्विभूषितम् || ३०५ ॥ य एतैर्लक्षणैर्युक्तं कारयेद देवतालयम् । धनधान्यमवाप्नोति मोदते सुखमेव च ॥ ३०६ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपिच । एते देवाः समाख्याता देवानामपि पूजिताः ॥ ३०७ ॥ पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः । अष्टबाहुचतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥ ३०८ ॥ हारकेयूरसंयुक्तो रत्नमालोपशोभितः । ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः || ३०९ ॥ शङ्खचक्रधरो देवो वामे च मधुसूदनः । कण्ठाभरणसंयुक्तों मूर्धा च मुकुटोज्ज्वलः || ३१० ॥ ब्रह्मा पश्चिमतः कार्यो बृहज्जठरमण्डलः | कुण्डिकामसूत्रं च दधत् कूर्चविभूषितः || ३११ ॥ : १. ' यत्नाद्यथोत्तरम्' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy