________________
रुचकादिचतुष्पष्टिपासादकः षट्पञ्चाशोऽध्यायः । द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् । दिकसूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेतं ॥ २८६ ॥ विस्तार शिखरस्याष्टौ भागात्स्याधसमुच्छ्यः (१) । पञ्चव्यासेन मूत्रेण ++++++++॥ २८७ ।। वेणुकोशान्तरं चास्य त्रिभिर्भागविभाजयेत् । ग्रीवा च पद्मशीर्ष च भागेन स्यादिदं द्वयम् ॥ २८८ ॥ प्रत्येकं भागिको कार्यों कलशामलसारको। (तीन)वात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥ २८९ ॥
नवात्मकः ।। विन्यसे(द दिदी शमैशान्यामाग्नेय्यां पुरुषोत्तमम् । ब्रह्माणं वायुदिग्भागे नैऋते च दिवाकरम् ।। २९० ।। मध्यगर्भे शिवः स्थाप्यः प्राच्यामपि पुरन्दरः ।। धर्मो(यमांयाभ्यां) प्रतीच्यां च वरुणः सोम उत्तरे ॥ २९१ ॥ (भक्ताठा?) शक्तिसम्पन्नः पूर्वायतनसन्निधौ । प्रासाद कारयेद् यत्नात् तदाद्यं नव पीडयेत् ।। २९२ ॥ उत्कृष्टमपकृष्टं वा यत्र स्थाने निवेशयेत् । प्रासादं तत्र कमोणि यानि तान्यभिदध्महे ।। २९३ ॥ सम्मुखं नैव कुर्वीत हीनं वा यदिवाधिकम् । वेदभागास्तं तव सश्रितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः(१) । अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते । वेधभागामृते(?)मृत्युं हीने हानि विनिर्दिशेत् ॥ २९५ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एते देवाः समाख्याताः परस्परविरोधिनः ॥ २९६ ॥ एता न दक्षिणापार्श्व स्थापयेत् पुरमाश्रितान् (?) । वामतो नान्यदेवानां ना(स्ति?)पि हीनालयेषु च ॥ २९७ ॥ नैतेषां दक्षिणे कुर्यादन्येषामपिचालयम् । हीनं वा यदि वाहीनं यदीच्छेच्छूिर यात्मनः ॥ २९८ ॥ 1. 'विस्तारः शिखरम्यारी भागाः साधं समुच्छ्रयः' इति स्यात् । २ 'वेणुकोशं समालिखेत्' इति चतुर्थपादः स्यात् ।
"Aho Shrut Gyanam