________________
१६
समराङ्गणसूत्रधारे
क्षोभयेदर्धभागे तु तदर्धेन जलान्तरम् । मत्तवारणकैर्विद्यात् स्तम्भैरुपरि शोभिताः || २७३ || रथिकैका त्रिभागेन पुनः सार्वद्विभागिका । तासां परस्परक्षेपो भागो भागो विधीयते ॥ २७४ ॥ शेषं शिखरविस्तारः सार्धपट्कं तदुच्छ्रयः । पृथक्सूत्रस्त्रिगुणितैर्वेणुकोशं समालिखेत् ।। २७५ ।। स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत् । ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् || २७६ | पद्मशी (स्तः तथा भागं कलशो भागसंमितः । अर्धभागस (मो/मुत्सेधं कारयेद् वीजपूरकम् || २७७ ॥ सर्वकर्णेषु कर्तव्याः क्रियायैवं विचक्षणः दिक्सूsaraभागेषु वलभी सन्निवेशयेत् ॥ २७८ ॥ निर्गमे पञ्चभागः स्यात् तिर्यक प्रतिभागिका: (१) । अस्याद्विभागको गर्भो मध्ये भागत्रयोच्छ्रितः ॥ २७९ भागाभागं भित्तिः स्यात् तत्समा चान्धकारिका । 'स्याचा विधातव्य: (१) पड्दारुकसमन्वितम् ॥ २८० ॥ एकैai रथिकां सार्वभागां कर्णेषु योजयेत् । शेषं भद्रस्य विस्तारो भागः स्यादस्य निर्गमः || २८१ ॥ एवं भद्रं (वि द्विभागं स्यात् स्तम्भद्वयसमन्वितम् । वभावर्तयोर्मध्ये भागमेकं च विस्तृतम् || २८२ ॥ तत्रोदकान्तरं कुर्यात् गुणद्वारविभूषितम् । नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥ २८३ ॥ मेखंलांन्तरपत्रे च कुर्याद् भागद्वयोन्मिते । रथिका स्याद् द्विभागा च ततः सार्वेकभागिका ॥ २८४ ॥
शेषं शिखर विस्तारः पञ्चांगं शिखरोच्छ्रयः । उपर्युपरि कर्तव्यं सर्वतोभद्रकद्वयम् ।। २८५ ।।
१. ' तस्याश्चामं विधातव्यम्' इति स्यात् ।
"Aho Shrut Gyanam"