SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे रथिकानां च सर्वासां स्वभद्रं विस्तरार्धतः । शृङ्गं भद्रं यथैवैकं तथा सर्वाणि कारयेत् ।। २४८ ॥ दिकमत्रेषु (च) सर्वेषु वर्धमानं निवेशयेत् । अष्टभागोच्छ्रिता जसा खुरपिण्डं तदर्थतः ।। २४९ ॥ (ये?मेखलान्तरपत्रे च स्यातां भागद्वयोद्गते । प्रथमा रथिकास्तत्र (सपादानुसू त्रयोच्छ्रिताः ।। २५० ।। पदपादविहीनाः स्युः क्रमेणोपरिभूमयः । दिक्मूत्रेपु सकर्णेषु क्रिया प्राग्वद् विधीयते ॥ २५१ ।। शिखरं दशविस्तारं भा(गैगिद्वादशकोच्छूितम् । चतुगुणेन सूत्रेण वेणुकोशं समालिखेत् ।। २५२ ।। स्कन्धकोशान्तरं चास्य त्रिभिनिर्विभाजयेत् । ग्रीवा च पद्मशीपं च तावद् भागाधमुच्छ्यात् ।। २५३ ।। भा(गमामा?गं चाम)लसारं स्यात् कलशो भागमेव च । (साश)तशृङ्गातो मेरुरयं प्रासाद ईरितः ।। २५४ ॥ प्रदक्षिणीकृते तस्या तत्पुण्यं कनकाद्रिणा(?) शैलेष्टकामये तत् स्यात् कृतेऽस्मिन्नधिकं ततः ।। २५५ ।। मेरुः ॥ नन्दिशालस्य संस्थाने तद्रूषे समवस्थिते । द्वितीया रथिका कार्या भागद्वयविनिर्गता ।। २५६ ।। शेषो भद्रस्य विस्तारः स्वविस्ता(रोरा)निर्गतः । अष्टांशायामविस्तारः स्वविस्ता(रोऽरा)निर्गतः ।। २५७ ॥ अष्टांशायामविस्ता( ररा) शाला स्यात् पुरतः पुनः । तस्या मध्ये भवेद् गर्भो द्विभागायामविस्तरः ॥ २५८ ।। गर्भभित्तिर्भवेचास्य भागेनैकेन निर्गता । वाह्यभित्तिस्तथैव स्यात् तत्समा चान्धकारिका ॥ २५९ ॥ द्विभागा रथिकास्तस्य सलिलान्तरभूपिताः । शेषो भद्रस्य विस्तारो भागेनकेन निर्गमः ॥ २६० ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy