SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे वरण्ड्यन्तरपत्रं च कुर्याद् भागद्वयेन च । वैदूर्योऽयं समाख्यातः प्रासादो दानवद्विषः ॥ २२५ ॥ वैडूर्यः ।। एतस्यैव यदा भद्रे भद्र स्याद् वर्धमानकः । पद्मरागस्तथैव स्याद् कार्योऽयं पद्मरागतः ॥ २२६ ॥ पद्मरागः ॥ पद्मरागस्य भद्रेषु वर्धमानं विवर्जयेत् । भद्रस्य पार्थद्वितये प्रदद्याद् रथिकाद्वयम् ।। २२७ ।। व्यासोच्छ्रायैश्च भद्राणि सिंहकनुविभूषयेत् । यदन्यदस्य तत् सर्वं पद्मरागसमं भवेत् ॥ २२८ ।। वज्रकोऽयं समाख्यातो विधेयस्त्रिपुरद्विषः । वज्रकः ॥ वज्रकस्यैव भद्रेषु पूर्ववद् रथिकास्थितौ ॥ २२९ ॥ षड्भागविस्तृनं तत्र शिखरं विनिवेशयेत् । सप्तभागसमुत्सेधं दिक्षु सर्वास्वयं विधिः ॥ २३० ॥ मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः । मुकुटोज्ज्वलः ॥ अस्यैव तु यदा स्थाने भद्र भद्रे चतुर्दिशम् ।। २३१ ॥ सिंहकर्ण परित्यज्य वर्धमानो विधीयते । ऊवीभवतृतीयायाः(१) सप्तोच्छ्रायषडायताः ॥ २३२ ।। ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशे(सतिःशितुः) । ऐरावतः ॥ ऐरावतस्य संस्थाने प्रासादे पूर्ववत् स्थिते ॥ २३३ ।। वर्धमानं विहायोर्ध्वं यदा सिंहो निवेश्यते । शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥ २३४ ।। क्षेत्राया(टामे)विस्तारं गर्भवेश्म निवेशयेत् । चतुर्भागायतं भद्रं मिर्गमेण विभाजितम् ॥ २३५ ।। AhoShrut.Gyanamy
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy