________________
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ।
सर्वतोभद्रशिखरं हित्वा ( हो + ? निवेशयेत् । विधिरेष समस्तासु ककुप्सु प्रविधीयते ।। २१२ । भद्रेषु वर्धमानस्य विन्यासं परिवर्जयेत् । व्यासोच्छ्रितैः सिंहकर्णैर्भद्रमस्य विभूषयेत् || २१३ ॥ महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् । इन्द्रगोपनिभाकारः प्रासादो भूधरः स्मृतः ॥ २१४ ॥ सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ ।
भूधरः ॥
भूधरस्य तु संस्थाने तद्रूपे समवस्थिते ।। २१५ ॥ भद्रे भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् । चतुर्भागमितव्यासं सार्थचतुः समुच्छ्रितम् ॥ २१६ ॥ रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् ।
रत्नकूटः ॥
चतुरश्रीकृते क्षेत्रे विंशत्या भाजितेंऽशकैः || २१७ ॥ कुर्याद् द्विभागविस्तारा रथिकाः पञ्च कर्णगाः । पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः || २१८ | प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता | पादपादविहीनास्तु क्रमेणापरभूमयः || २१९ ॥ भद्रकर्णान्तरस्थे द्वे रथिके ये तदूर्ध्वतः । शिखरं दशविस्तारं कुर्यात् सार्धदशोच्छ्रितम् ॥ २२० ॥ मूलकर्णानुसारेण शिखरं तत्र यद् भवेत् । तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥ २२९ ॥ भद्रं विभूषयेत् पत्रैः सिंहकर्णैर्मनोरमैः । पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ।। २२२ ॥ स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । पद्मशीर्ष तथा ग्रीवां सार्वभागेन कारयेत् || २२३ | कुर्याद् भागेन भागेन कुम्भं चामलसारकम् । नवमागतां जङ्घ तदर्धखर पिण्डकाम् ॥ २२४ ॥
"Aho Shrut Gyanam"