SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २६ समराङ्गणसूत्रधारे afat गर्भो भिच्या सह विधीयते । सपादपादिका भित्तिगर्भे (?) कुर्याद् विचक्षणः || १४८ ॥ वाह्यभित्तिश्व तद्वत् स्यात् तद्वच्चाप्यन्धकारिका । पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्रयाः ॥ १४९ ॥ सर्वतोभद्रकाकारान्मृलकर्णाश्च योजयेत् । एकैकां रथिकां चान्यां विन्यसेत् पक्षयोर्द्वयोः ॥ १५० ॥ चतस्रो रथिकाचैवं कर्णे कर्णे निवेशयेत् । शेषो भद्रस्य विस्तारः स्वविस्तारार्धनिर्गतः ।। १५१ ।। भूषयेत् सिंहकर्णैश्च भद्रव्यासार्धमुन्नतैः । विन्यसेच्छिखरं तत्र भागविस्तृतमष्टभिः || १५२ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् । स्कन्त्रकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् || १५३ ॥ ग्रीवार्धभागिकोत्सेधा (?) भागेनामलसारकः | पद्मशीर्ष तथार्धेन भागेन कलशः स्मृतः ।। १५४ ॥ त्रिपादा रथिकास्तिस्र उच्छ्रायेण प्रकीर्तिताः । सर्वतोभद्रकाका नन्दिशालः प्रकीर्तितः ॥ १५५ ॥ नन्दिशालः || नन्दिशालस्य संस्थाने तद्रूपे समवस्थिते । तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् ।। १५६ ॥ भद्रे भद्रे तस्य तस्य वर्धमानं निवेशयेत् । अर्थषष्ठांस्तथा भागान् स्याद् भद्रशिखरोच्छ्रयः ॥ १५७ ॥ पीठोच्छ्रायं च जङ्घां च तथास्य शिखरोच्छ्रयम् । नन्दिशालसमाकारं सममेव प्रकल्पयेत् || १५८ ।। कार्योऽयं सर्वदेवानां प्रासादो नन्दिवर्धनः । नन्दिवर्धनः ॥ नन्दिवर्धन संस्थानं पूर्ववत् परिकल्पयेत् ।। १५९ || उभयोः कर्णयोर्मध्ये ये तत्र रथिके स्थिते । तयोश्वोपरि कर्तव्यं शिखरं लक्षणान्वितम् ॥ १६० ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy