________________
रुचकादिचतुष्षष्टिपासादकः षट्पञ्चाशोऽध्यायः । २५ भागे भागेऽन्तरं कार्यमुपर्युपरि चोभयोः । षड्भागान् विस्तृतं कुर्याच्छिखरं सप्तमोच्छ्रितम् ॥ १३५ ॥ एवं भूमिभिरष्टाभिः कुर्यादेनं विचक्षणः । जलनिर्गमविच्छिन्ना रथाः प्रतिरथास्तथा ॥ १३६ ॥ चतुर्गुणैः पृथक्मूत्रैः ) पद्मको समालिखेत ! मञ्जरी ललिता कार्या नीलोत्पलदलाकृतिः ॥ १३७ ।। ग्रीवा चैकार्धभागेन (भागेना)मलप्सारकम् । . पद्मशीपं च कर्तव्यं ग्रीवामानेन धीमता ॥ १३८ ।। सार्धमागेन सोष्णीषः पद्मस्योपरिकुम्भकः । सर्वतोभद्र इत्युक्तो रेपानानाम् (१) एष शेखरः ॥ १३९ ।। विधाय सर्वतोभद्रं देवानामालयं शुभम् । लभते परमं लोकं दिवि स्वच्छन्दभाषितम् ।। १४०॥
सर्वतोभद्रः ।। चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । व्यासपादेन गर्भ(स्तीस्यात् तदर्शदन्यकारिका ॥ १४१ ॥ जङ्घा स्कन्यश्च तं कर्ण(?) भद्रं चाप्यस्य यद् भवेत् । सर्वतोभद्रवत् सर्व तद विधेयं चतुर्दिशम् ।। १४२ ।। तस्य भद्राणि सर्वाणि भितिभिः परिवेष्टयेत् । भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥ १४३ ।। पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत् । सर्वतोभद्रकाकारा रथिकाश्चात्र कारयेत् ।। १४४ ॥ कुर्यात् षडशा विस्तीर्णशिखरं प्र+धोच्छ्रितम् (१) । सर्वतोभद्रसंस्थानादेषां चास्वत्र योजयेत् (?) ॥ १४५ ॥ ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत।। मासादो नन्दनो नाम कर्तव्यो देवतालयः ॥ १४६ ॥ कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत् ।
नन्दनः ।। भक्ते द्वादशषा धेत्र चतुरभीकते ततः ॥ १४७ ।।
"Aho Shrut Gyanam"