________________
२४
समराङ्गणसूत्रधारे
कुर्याद् भागेन भागेन कुम्भं चामलसारकम् । भागार्थेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥ १२२ ॥ प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः ।
कैसरी ॥
चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः || १२३ ॥ प्रासा (दोद) व्यासतः कुर्याज्जगतीं द्विगुणामिह । विदध्याज्जगतीपीठं प्रासादार्थसमुच्छ्रितम् ॥ १२४ ॥ पीठस्योपरि संस्थाप्य प्रासादं विभजेत् ततः । सर्वतोभद्र संस्थानं हस्तसंख्या यदा भवेत् ।। १२५ ।। हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धे ( 2 ) उदाहृतः । मध्यमः सप्तविंशत्या प्रासादः स्यात् कलाधिकैः || १२६ || कनीयान् पञ्चदशभिः प्रासादः समुदीरितः । तलच्छन्दो यदा ह्येषां तथाचैवोर्ध्वतो गतिम् ॥ १२७ ॥ ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ् निगद्यते । चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ।। १२८ || न्यसेत् तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम् । गर्भपादेन भित्तिः स्यात् तद्वदेवान्यकारिका ॥ १२९ ॥ बाह्यमित्तिस्त(थवा ?थैव) स्याद् दशशास्युर्द्विभागिका (१) । प्रतिवर्णपदांशेन (3) षोडशेन जलान्तरम् ॥ १३० ॥ शेषं भद्रं (?) प्रकर्तव्यं गर्भार्धेन विनिर्गतम् । भागार्थं क्षोभयेत् पार्श्वे निर्गमं च तथाचरेत् ॥ १३१ ॥ शेषः स्याद् भद्रविस्तारः पञ्चभागायतस्तथा । पीठं तस्यैव कर्तव्यं सार्धद्वयसमुच्छ्रितम् ।। १३२ । द्विगुणां च तथा जङ्घामुच्छ्रायेणास्य कल्पयेत् । मेखलामर्वभागेन भागेनान्त (र) पत्रकम् ॥ १३३ ॥ प्रथमा रथिका तत्र कार्या भागत्रयोच्छ्रिता । द्वितीया रथिका या सा सार्वभावेन वोच्छ्रिता ॥ १३४ ॥
"Aho Shrut Gyanam".