________________
रुचकादिचतुष्पष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । २३ कर्णे भद्रे प्रतिस्थाने पूर्णे शृङ्गे यदा भवेत् । अण्डकैः सप्तदशभिस्तदा स्यात् स धराधरः ॥ १०९ ।। श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत् । शृङ्गं भद्रो + भद्रे च तदा तिलक उच्यते ।। ११० ।। यथा कर्णे त था) भद्रे यो भवेचित्रकुटवत । उत्तमाड्गे च यस्तद्वत् स स्यात् सवोङ्गसुन्दरः ॥ १११ ॥ प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते । मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोन्तिकः॥११२ ॥ सर्वे कूटाटताः कार्याः सर्वे कार्याश्चतुर्मुखाः । मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ।। ११३ ।। इदं नवानां मिश्राणामिह लक्षणमीरितम् । साधारणमतः स्पष्टं ब्रूमः सम्पति लक्षणम् ॥ ११४ ॥ चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते । तस्य मध्ये भवेद् गर्भो द्विभागो देवतालयः ॥ ११५ ॥ भागे निवेशयेद् भित्ति कुर्याद् भागेन कारिकाम् । बाह्यभित्तिं पुनर्भागे विधेयास्तस्य सिद्धये(?) ।। ११६ ॥ तस्य कर्णेषु कर्तव्या रथिकाच द्विभागिकाः। शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥ ११७ ॥ भागेन निर्गतं दिक्षु सर्वास्वेष भवेद् विधिः । चतुर्भागोच्छ्रिता जा करकश्च तदर्धकः ।। ११८ ।। वरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत् । रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः(१) ॥ ११९ ॥ षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम् । तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥ १२० ।। स्कन्धकोशान्तरं तस्य चतुर्धा विभजेत् ततः । पशीर्ष तथा ग्री(वां) सार्धनांशेन कारयेत् ॥ १२१ ।।
"Aho Shrut Gyanam