SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २२ समराङ्गणसूत्रधारे रथिकासु विधेयोsस्य परितो जलनिर्गमः । वज्रको नाम कथितः प्रासादः शुभलक्षणः ॥ ९७ ॥ वज्रकः ॥ वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते । चत्वारिंशद्भागभक्ते रथिकाः स्युविभागिकाः ॥ ९८ ॥ sert दिक्षु कर्णा भवन्त्यस्य द्विभागिकाः । कर्णैः पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥ ९९ ॥ स्वस्तिकः ॥ वज्रकस्यैव संस्थाने ये रथाः प्राकू प्रदर्शिताः । एकैकस्तेषु कर्तव्यश्चतुरश्चतुरोऽशकान् ॥ १०० ॥ भागद्वयेन मध्यः स्याद् रथकोशाद विनिर्गतः । शकुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥ १०१ ॥ शङ्कुः ॥ चतुरश्राः षोडश प्रोक्ताश्चतुरंश्रायतद्वयम् ( 2 ) | वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्राष्टाश्रयस्त्रयः ।। १०२ ॥ पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः । मिश्रकाणामथ मो लक्षणानि यथाक्रमम् ॥ १०३ ॥ भद्रकस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत् । सुभद्रो नाम(?) संज्ञोऽयं कर्णकूटैः करीब सौ (९) ॥ १०४ ॥ पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत् । लताख्योक्तं (?) तदा स स्यात् सर्वतोभद्रसंज्ञितः ॥ १०५ ॥ भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत् । मिश्रयोगे तयोर्मिश्रः स भवेत् सिंहकेसरी ।। १०६ ॥ श्रीवत्सस्यैव संस्थाने भद्रे कूटं निवेशयेत् । कर्णे तेनैव योगेन प्रतिशृङ्गोपशोभितम् ।। १०७ ॥ कलशैः सप्तदशभिः पद्मघण्टामलैः सह । स च त्रिकूट इत्युक्तो विचित्रशिखरान्त्रितः ॥ १०८ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy