________________
रुचकादिचतुष्पष्टिपासादकः षट्पञ्चाशोऽध्यायः । पडंशविस्तृतं चैतत् सार्धपटकसमुच्छितम् । चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।। १६१ ।। ग्रीवा चामलसारं च कुम्भकस्याश्रयो भवेत् । कार्यः स सर्वतोभद्रसंस्थान इति निश्चयः ॥ १६२ ॥ मन्दिरोऽयमिति ख्यातः प्रासादः क्षितिभूषणः ।
मन्दिरः ॥ नन्दिवर्धनसंस्थाने तपसमवस्थित ॥ १६३ ।। दिक्मत्रे कर्णसूत्रे च (कुम्भ?)+रथिकाष्टकम् । रथिका अपि चैताः स्युर्द्विभागायतविस्तृताः ॥ १६४ ॥ षड्भागविस्तृतिश्चास्य शेष शिखरमाचरेत् । उच्छ्यश्चास्य कर्तव्यो भागानां सार्थसप्तकम् ॥ १६५ ॥ षड्भागः स्कन्धविस्तारो ग्रीवा चास्य द्विभागिका । रेखा चामलसारं च कलशचात्र यो भवेत् ॥ १६६ ॥ सर्वतोभद्रवत् स स्याच्छीक्षोऽयमुदाहृतः ।
श्रीवृक्षः ॥ चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ १६७ ॥ द्विभांगविस्तृताः कर्णा रथिकास्तेषु कारयेत् । उदकान्तरविच्छिन्ना मूलकणषु योजयेत् ॥ १६८ ॥ शेपं भद्रस्य विस्तारस्तदर्धमपि निर्गमः । सर्वतोभद्रमप्यस्य भद्रे भद्रे विभज्य च ॥ १६९ ।। पूर्वैर्गुणैस्तु संयुक्ते चतुर्दिक्षु निवेशयेत् । तस्य गर्भस्तु कर्तव्यः (पदापृष्टक)विस्तृतः ॥ १७० ॥ सार्थभागप्रमाणः स्याद भित्तिर्गर्भस्य मध्यतः। बाह्यभित्तिस्तथैवास्य शेपं भ्रमणमाचरेत् ।। १७१ ॥ जापभागमुत्सेधात् पीठं तस्य तदर्धतः ।। वरण्डी(ना?मान्तरं पत्रं भागनैकेन कारयेत्।। १७२ ॥ रथिकाद्वादशविस्तारानुपयुपरि योजिता(?) । तिस्रस्तिस्रो निवे(शाश्याः स्युः कर्णे कर्णे(तीय)थाक्रमम् ॥१७॥
"Aho Shrut Gyanam"