________________
समराङ्गणसूत्रधारे जङ्गास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः । विरण्ड्यर्धाशिकाद्भिश्च(१) भागश्चान्तरपत्रयोः ॥ ७३ ।। तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः। कुम्भश्चामलसारश्च सिंहेऽ(स्मिद्रास्मिन् भा)गमा(ग?नतः।। ७४ ॥
सिंहः ।। चतुरश्रीकृते क्षेत्रे चतुर्भि जितेः पदैः । सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥ ७५ ॥ पादेनैकेन निर्यातान् दिक्षु सर्वास्वनुक्रमात् । प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥ ७६ ॥ पदषड्भागनिर्यातान् विदधीत चतुर्दिशम् । चतुर्भागायतो गर्भः कार्योऽस्य द्वयंशविस्तृतः ॥ ७७ ॥ जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत् । प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥ ७८ ॥
भवः ॥
भवस्यैव यदा कुर्याद् रथान् सजलनिर्गमान् । द्विभङ्गं संश्रयोऽन्यः सा(?)प्रासादो विभवाभिधः ॥ ७९ ॥
(त्रिलिङ्गः) । अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः । विदध्याद गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ।। ८० ॥ दिक्सूत्रेष्वखिलेष्वस्य सीमाध पदमेव च । पदस्याष्टादशो भागस्तद्योगाद वृत्तमालिखेत् ॥ ८१ ॥ विस्तारार्घ भवेद गर्भो गर्भार्धास्तस्य भित्तयः । तवृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ।। ८२ ॥ दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत् ।। द्विभागा रथिका कायो सलिलान्तरभूषिता ॥ ८३ ॥ सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत् । जजोस्सेधे च पीठे च शिखरं(१) च तथा भवेत् ।। ८४।।
"Aho Shrut Gyanam"