SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ रुचकादिचतुःषष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । १९ तदुत्पन्नस्तु भद्रस्थकर्णैः स्याच्चित्रकूटकः । गिरिकूटः ॥ कर्णान्ते च रथान्ते च यदि स्यात् सलिलान्तरम् ।। ६३ ॥ वर्धमानस्य भवति श्रीवत्सः स्यात् तदा शुभः । श्रीवत्सः ॥ गिरिकूटस्य संस्थाने तद्रूपे विनिवेशिते ।। ६४ ॥ कर्णा (न्) प्रतिरथेष्वस्य निखिलेष्वपि योजयेत् । प्राग्वत् प्रतिरथोद्भूतमूत्राभ्यां कर्णवर्मना ।। ६५ ॥ त्रिकूाख्यस्तदैव स्यात् प्रासादो देवतालयः । त्रिकूटः ॥ त्रिकूटस्यैव संस्थाने भद्रकर्णपरिच्युते ॥ ६६ ।। स्वरूपभद्रसंस्थाने मुक्तकोणः प्रजायते ।। मुक्तकोणः ।। चतुर्भि(विस्तृते गैः क्षेत्रे पञ्चभिरायते ॥ ६७ ॥ भागेन भित्तिः कर्तव्या शेषं गर्भगृहं भवेत् । अस्य क्षेत्रार्धसूत्रेण पृष्ठतो वृत्तमालिखेत् ॥ ६८ ॥ पुरतः शूरसेनोऽस्य पृष्ठतोऽपि गजाकृतिः। प्रासादोऽयं गजो नाम गणेशस्य विधीयते ॥ ६९ ।। वर्धमानस्य संस्थाने गरुडं विनिवेशयेत् । तस्य पक्षौ विधातव्यौ प्रासादान निर्गतौ ॥ ७० ॥ पक्षयोस्तु दशस्तस्य(?) वर्धमानं विभाजयेत् । जातिशुद्धा रथाः कार्याः पार्श्वयोर्गरुडो भवेत् ॥ ७१ ।। वर्धमानस्य संस्थाने प्राग्वत् कर्णी नियोजयेत् । द्विभागा रथिका कार्या शेषं भद्रं प्रकल्पयेत् ।। ७२ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy