SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे हंसस्येव यदा कुर्याद भद्रस्यान्ते जलान्तरम् । तदा हंसोद्भवो नाम प्रासादः परिकीर्तितः ।। ५३ ॥ हंसोद्भवः ।। रथान्तकर्णयोश्चैवं यदा स्यादुदकान्तरम् । प्रतिहंसस्तदा प्रोक्तः प्रासादोऽयं मनोरमः ।। ५४ ।। प्रतिहंसः ।। प्राग्रीवा रुचकस्यैव सीमाविस्तारविस्तृताः । निर्गता भद्रमानेन तदा नन्दः स उच्यते ॥ ५५ ॥ नन्दः ॥ प्राग्नीवैर्भद्रमानेन नन्दो यदि विभूष्यते । निर्गतैर्भागमानेन चतुरभैः समन्ततः ।। ५६ ॥ प्राग्ग्रीवः पुरतः कार्यः स्तम्भद्वयविभूपितः । नन्द्यावतस्तदा प्रोक्तः प्रासादो विजयावहः ॥ ५७ ।। नन्द्यावर्तः ॥ नन्द्यावर्ते यदा कुर्याद् भद्रान्ते जलनिर्गमम् । धराधरस्तदा ज्ञेयः प्रासादो भुवनोत्तमः ।। ५८ ॥ धराधरः॥ दशधा भाजिते क्षेत्रे चतुरश्र समन्ततः ।। भागद्वयेन कर्णः स्याद् भजेच्छेषं च सप्तथा ॥ ५९ ॥ भागत्रयेण स्थको मध्यमोऽस्य विधीयते । द्वाभ्यां द्वाभ्यां तु भागाभ्यां रथको वामदक्षिणौ ॥ ६ ॥ भागस्यैव त्रिभागेन भवेदस्य विनिर्गमः । कथितो वर्धमानोऽयं वर्धमानः ।। गिरि कूटोऽथ कथ्यते ॥ ६१॥ वर्धमानस्य भद्रस्थमध्यसूत्रेण योजयेत् । कर्णिसूत्रं तदग्राभ्यां न्यस्येत् सूत्रचतुष्टयम् ।। ६२॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy