________________
समराङ्गणसूत्रधार अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि । सेकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकः ॥ २७ ॥ पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः । भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः ॥ २८ ॥ इन्द्रनीलश्च यः प्रो(कारः? क्तः स त्रि)पश्चाशताण्डकैः । सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः ॥ २९ ॥ एकषष्टयण्डकोपेतः प्रासादो भूधरी भवेत् । पञ्चषष्टयण्डकेयुक्तां रनकूटः प्रशस्यते ॥ ३० ॥ नवषष्टयण्डकः कार्यों वैदयः शुभलक्षणः। त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते ॥ ३१ ॥ अण्डकः सप्तसप्तत्या प्रासादो विजयाभिधः । एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ।। ३२ ।। ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः । नवाशीत्यण्डकयुक्तो राजहंसः प्रशस्यते ॥ ३३ ॥ नवत्या सप्तयुतया प्रासादो कृपभोऽ डकैः । शतेनेकोत्तरेणाण्डर्मेरुः प्रासादराट् स्मृतः ॥ ३४ ॥ हरेर्हिरण्यगर्भस्य +++ भास्करस्य च । मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥ ३५ ॥ मेरोः प्रासादराजस्य देवानामालयस्य च । कर्ता क्षत्रिय एवास्य वै(श्य?श्योऽस्य स्थपतिर्भवेत् ॥ ३६ ॥ एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः । वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतियेदि ॥ ३७॥ तदास्य सत्यं शौचं च विक्रमश्च विनश्यति । ईश्वरोऽपि यदा विप्रो मेरुपासादकृद् भवत् ।। ३८ ॥ कतुः कारयितुः पीडा पूजा चास्य न ताशी। ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥ ३९ ॥ वणिकर्मणि वर्तेत धनवानपि यद्यसौ । सर्वविमेधु निर्दिष्टः कर्ता स्थपतिरेव सः॥४०॥
"Aho Shrut Gyanam"