________________
रुचकादिचतुष्पष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । रुचका(द्य,टादशैषां चतुरश्राः प्रकीर्तिताः ।। भवश्च विभवथैव चतुरश्रायतोऽथवा ।। १३ ।। पद्मो मालाधरश्चैव वृत्तावतावुदाहृतौ । मलयो मकराख्योऽथ द्वौ तु वृत्तायताविमो ॥ १४ ॥ वजकः स्वस्तिकः शकुरित्थमष्टाश्रयस्त्रयः ।। ललिताः कथिता घेते बमोऽन्यान् मिश्रकानथ ॥ १५॥ सुभद्रो योकिटश्च(?) सर्वतोभद्र एव च । सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः ॥ १६ ॥ तिलकाख्यः स्वतिलकस्तथा सर्वाङ्गसुन्दरः। नवामी मिश्रकाः प्रोक्ताः कथयन्ते (साधकारिकाः) ॥ १७ ॥ केसरी सर्वतोभद्रो नन्दनो नन्दिशालकः । नन्दीशो मन्दिराख्यश्च श्रीक्षश्चामृतोद्भवः ॥ १८ ॥ हिमवान् हेमकूटश्च कैलासः पृथिवीजयः । इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ १९ ॥ वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः । ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ २० ॥ मेरुः प्रासादराजश्व देवानामालयो हि सः । +संयोगे तु संधारान् कथयामो यथाविधि ॥ २१ ॥ लतात्रिपुष्कराख्यौ च पञ्चवक्त्रश्चतुर्मुखः । नवात्मकश्च निगूढः प्रासादाः पञ्च संज्ञिताः ॥ २२ ॥ आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः । सर्वतोभद्रको यस्तु विधेयः स नवाण्डकः ॥ २३ ॥ त्रयोदशाण्डकस्तु स्यानन्दनो नाम यो भवेत् । नन्दिशालस्तु यः प्रोक्तः स स्यात् सप्तदशाण्डका ।। २४ ।। अण्डकैरेकविंशत्या नन्दीश: परिवारितः । पञ्चविंशाण्डकोपेतं मन्दरं कारयेद् बुधः ॥ २५ ॥ श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः । स्यात् त्रयविंशताण्डैस्तु प्रासादो शमृतोद्भवः ॥ २६ ॥
"Aho Shrut Gyanam"