________________
সলঙ্গসুধাই अथ रुचकादिचतुष्पष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ।
अथातः सम्प्रवक्ष्यामि प्रासादाञ् शिखरान्वितान् । रुचकादींचतुःषष्टिं नामलक्षणतः क्रमात् ॥ १॥ पूर्व यानि विमानानि पञ्चोक्तान्यभवंस्ततः। तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥ २ ॥ शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः । केचिदण्डत्रयोपेताः केचित पञ्चाण्डकान्विताः ॥३॥ ईषभेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः । सौवर्णा राजताश्चैव देवानां सतनं प्रियाः ॥ ४ ॥ मणिमुक्तापवालाद्यैर्भूषणः सुविभूषिताः । रीतिकाताम्रघोषाः पिशाचोरगरक्षसाम् ॥ ५ ॥ देवलोका भवन्त्येते कामस्वच्छन्दचारिणः । पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥ ६ ॥ इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः । सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥ ७ ॥ लक्षणेनान्वितानेतान् कथयामो यथाविधि । पुराणां भूषणाथाय भुक्तिमुक्तिप्रदा तृणाम् ॥ ८ ॥ रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा । प्रतिहंसस्तथा नन्दो नन्द्याव? धराधरः ॥ ९ ॥ वर्धमानोऽद्रिकूटश्च श्रीवत्सोऽथ त्रिकूटकः । मुक्तकोणो गजश्चैव गरुडः सिंह एव च ।। १० ॥ भवश्च विभवश्चैव पद्मो मालाधरस्तथा । वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ।। ११ ॥ इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः । एतेषां रूपनिर्माणं कथयामो यथाविधि ॥ १२॥
"Aho Shrut Gyanam"