________________
समराङ्गणसूत्रधारे तुलाधारणकोत्सेधाचतुर्भागविभाजितात् । भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥ १३७ ॥ मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले (?) । द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥ १३८ ।। इति हीरग्रहादीनां समासालश्मकीर्तनम् । पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थन कुम्भिका (?) ॥ १३९ ॥ कुर्वीत स्तम्भतः सार्धा गर्ग(?)कुम्भस्य विस्तृतीः । अथवा स्तम्भकर्णेन स्तम्भाग्रद्विगुणा क्वचित् ।। १४० ॥ पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः । स्तम्भविस्तारकणोद् वा यद्वा पिण्डोऽग्रकुम्भके ।। १४१ ॥ तस्य भागान् प्रवक्ष्यामो यथाकु कथं स युज्यते । विभक्तोऽत्र त्रिधा पिण्डो भागेनैकन पुत्तली ।। १४२ ॥ चतुर्भिस्तस्य मध्यस्य (बखं?, पदां समालिखेत् । उच्छाले पञ्चधा भक्ते त्रिभिरावर्तनं ++ ॥ १४३ ॥ वर्तनं योषव्येत्(?) किञ्चिन्न च खल्वं समाचरेत् । वतेने कुम्भकुम्भी तु मूत्रं दत्वा सुतानितम् ॥ १४४ ॥ पद्मनालासमा स स्यान भवेत् पङ्किवर्जिता (?) । नवाघोच्चाहा(?)लके भत्ते वीरगण्डस्तु भागिकः ।। १४५ ।। एकेनैकेन भागेन विधेया पट्टिकट्टिका । (ध्वसंछाकाल?)कर्तव्यं भागद्वितयसंमितम् ॥ १४६ ॥ तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् । भागेनैकेन पनं स्याद भागन कलशं लिखेत् ॥ १४७ ।। द्वाभ्यां समालिखेत् कुम्भं भागेनकेन पट्टिकाम् । वर्तमाना चत्रा(१)कार्या शोभा स्यादस्य यावतः ॥ १४८ ॥ एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः । तलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ।। १४९ ॥ द्रव्येष्वत्र हि सर्वेषु सम्यक् शोभा विवक्षिता । न्यूनातिरिक्तमप्यस्मान्मानेष्वगुलमाचरेत् ॥ १५० ॥
"Aho Shrut.Gyanam" '