________________
मेर्वादिषोडशप्रासादादिलक्षणो नाम पञ्चपञ्चाशोऽध्यायः। ११ वायुं वायव्यदिग्भागे कुवेरमपि चोत्तरे । अष्टौ घेते महात्मानो लोकपालाः प्रकीर्तिताः ॥ १२३ ॥ पालयन्ति जगत् सर्व स्वस्वस्थाने प्रतिष्ठिताः। पुर(कर्कट?कर्वट)दुर्गेषु ग्रामेपु नगरेषु च ॥ १२४ ॥ क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः । न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥ १२५ ॥ प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम् ।। अथातः प्रोच्यते सम्यग् द्वारमानमनुक्रमात् ।। १२६ ।। ज्येष्ठमध्यकनिष्ठानां द्रव्यं स्तम्भानुसङ्गतम् । एकहस्ते भवेद् द्वारं प्रासादे षोडशाङ्गुलम् ॥ १२७ ।। द्विकरे द्विगुणं तत् स्यात् त्रिकरे द्विकरं शुभम् । चतुष्करे चतुःषष्टिरमुलानि प्रशस्यते ।। १२८ ।। अत ऊर्ध्व प्रतिकरं व्यङ्गुला वृद्धिरिष्यते । द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥ १२९ ॥ (पोह्याजयवान्यालर्ध?) ध्रुवके चतुर(र?)ड्गुले । विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥ १३० ॥ एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधि । द्वारविस्तारभागेन स्तम्भः सम्यग विधीयते ॥ १३१ ॥ चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः(?) । तथा स्तम्भस्य बाहुल्याच्चतुभोगविभोगविना (१) ॥ १३२ ॥ +भागौ तत्र कर्तव्यो हीरग्रहणमुच्छ्रितम् ।। भागत्रयेण कर्तव्यः पट्टस्य च समुच्छयः ॥ १३३ ॥ भागेनैकेन नीस्यातव्यविस्तारं भत्रिभागरच्यकिम् (१) ।। पट्टहस्ते विधातव्यमङ्गुलद्रयनिर्गमम् ।। १३४ ॥ +ड++++स्सारः स्तम्भतुल्यः प्रशस्यते । एकैकमङ्गुलं (ला?)पट्टपार्श्वयोरधिकस्ततः ।। १३५ ॥ पट्टदस्य विस्तारः(१)कार्यश्चतुर्भागविभाजितः । भागेनैकेन चोत्सेधस्तुलाधारणमिष्यते ।। १३६ ।।
"Aho Shrut Gyanam"