________________
समराङ्गणसूत्रधारे गर्भाधनोच्छ्यस्तस्याः शुभदः परिकीर्तितः । मण्डपस्य षडंशा?(?)पञ्चमांशादथ स्मृतः ॥ १०९ ॥ कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः । पूर्वापरमुखाः कार्या एते याम्यात्तराननाः ।। ११० ॥ ऐन्द्रे याम्ये वारुणे च कौवेरे च यथाक्रमम् । दिग्भागेषु चतुर्वेषु वलभी विनिवेशयेत् ॥ १११ ।। गर्भविस्तारविस्तीर्णा द्वौ त्रिभागौ मुखायताम् । इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥ ११२ ।। तिर्यगायतमारोप्य सूत्रं गर्भेण मण्डपे । (गुरुकक्षोऽथ?) कर्तव्या गवाक्षस्तम्भसंयुताः ॥ ११३ ॥ मासादविस्तरात् कार्यों द्विगुणो मण्डपः सदा। मण्डपस्य (स?स्व विस्तारा(द) जगती द्विगुणा बहिः ॥ ११४ ॥ कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा। तेषामध्यर्धतः कुयोद वलभीनां निवेशनम् ॥ ११५ ॥ अनेन क्रमयोगेन बाह्याद वाह्य सुसंवृतम् । य(दाथा) हि शोभते राजा केयूराङ्गदकुण्डलैः ॥ ११६ ॥ तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः । ध्वास्याहोस्यातिसौम्यस्य(१) श्रीकीर्तिविजयावहः ॥ ११७ ॥ अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम् । आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥ ११८ ।। दक्षिणे मातृदे(वैश्वां)स्तु गजास्यं दक्षिणोपरि । विन्यसेद वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥ ११९ ॥ विष्णुं कुबेरदिग्भागे तथेशान्यां महेश्वरम् । अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥ १२० ॥ तत्रैशान्यां दिशि न्यस्येदीशानं लोकनायकम् । दानवानां निहन्तारं पूर्वस्यामपि वासवम् ।। १२१ ॥ वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे । नैर्ऋत्यां निऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥ १२२ ।।
"Aho Shrut Gyanam"