________________
मेर्वादिषोडश मादादिलक्षणो नाम पञ्च {ञ्चाशोऽध्यायः । सभित्तिर्गर्भतुल्यः स्यात् सन्धारेषु तुलोदयः । स विधेयः पुनासाद यदि वा किञ्चिदुन्नतः ॥ ९५ ॥ मूलमूत्रं तु दशधा ++ (मश्य?)समालिखेत् । गर्भसूत्रं प्रतिष्ठाप्य सिंहकर्ण प्रकल्पयेत् ।। ९६ ॥ सार्धभागेन सूत्रेण मध्यमस्य समालिखेत् । उरो द्विभागतुल्यं तु मस्तकं भागमुच्छ्रितम् ॥ ९७ ॥ अर्धेन वोच्छ्यस्तस्याः पक्षोच्छ्राया द्विभागिकाः । उरो (लेख्य?) च सीमान्ते सूत्रेणच्छन्दमादिशेत् ।। ९८ ।। नवधा दशथा चैव सिंहक(मौ?)वुभौ स्मृतौ । एकपविस्तृतो भागा(?) उदयात् पञ्चभागिकः ।। ९९ ।। मूरसेनो द्वितीयस्तु स्वात् समोदयविस्तृतिः । उदयात् सार्थविस्तीर्ण सिंहकर्णस्त्रिसंकुला) ॥ १०० ॥ कामलान् मल्लकांथान्यान् सिंहकर्णात् प्र(लोप?कल्प)येत् । प्रासादानां हि सर्वेषां सर्वमेतद् विभूषणम् ॥ १०१ ॥ यस्य यत्रोचितं स्थानं तत् तत्र विनिवेशयेत् । निर्मिती वलभेस्तिर्यक् सूत्रं कुर्वीत सप्तथा ॥ १०२ ।। पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत् । मेखलान्तरपत्रे च जम्माकुम्भकमेव च ॥ १०३ ॥ पञ्चभागोच्छ्रितं कुयात् तद्वच्छिखरपुच्छ्रितम् । कीर्तितानि विमानानि यान्येव सुरवमनि ॥ १०४ ।।. सान्येव स्थावरत्वेन प्रासादा इति विश्रुताः । महेश्वरस्य कैलासो विष्णोस्तु गरुडामिधः ॥ १०५ ॥ कार्यः प्रजापतेः पद्मो गणनाथस्य च द्विपः । न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥१०६ ॥ यस्तु त्रिविष्टपः स स्यात् सर्वदेवनिकेतनः । अस्मात् तु येऽन्ये प्रासादाः स्मृतास्तेऽने करूपिणः ॥ १०७ ॥ सर्वेषामेव देवानामभेदेन भवन्ति ते । जगत्यां विस्तरः कार्य: प्रासादोच्छ्यसंमितः ॥ १०८ ॥ .
"Aho Shrut Gyanam"