SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मेर्वादिषोडशप्रासादादिलक्षणो माम पञ्चपञ्चाशोऽध्यायः । बङ्गुलं त्र्यगुलं वापि चतुरङ्गुलमेव च । उदकान्तरकं कार्य श्रीव(त्सो नन्दनोत्से नन्दने पिच ।। ७२ ।। श्रीवत्सः ॥ विस्तारैर्दशधा भक्तैः षड्भा(गा मञ्जरी भवेत् । सर्वतोभद्रवन्मूलकणांवस्य द्विभागिको ।। ७३ ।। उदकान्तरम(न्य?प्य स्य श्रीवत्सस्येव कल्पयेत । हंसोऽयं कीर्तितःसम्यक् शुभदो लक्षणान्वितः ॥ ७४ ।। हंसः ॥ रुचकोऽप्येवमेव स्यादुदकान्तरवर्जि(ता?तम् । भित्तयश्चतुरंशेन गर्भो व्यासार्धसंमतः ।। ७५ ।। रुचकः !! चतुरश्रीकृते क्षेत्रे विभजेद दशभिः पदैः । विदध्यादधेमानाख्यं तत्र भ्रान्तमनुक्रमात् ।। ७६ ।। भद्रस्य च भवेद् भागैश्चतुर्भिः परिविस्तृतम् । एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ।। ७७ ।। द्विभागविस्तृतौ कौँ निर्गम: स्यात् कराङ्गुलैः। वर्धमानः क्रियायुक्तो यशोलक्ष्मी विवर्धयेत् ॥ ७८ ॥ रुचको वर्धमानो वा श्रीवत्सो हंस एव च । य एको रोचते तेषु न्यसेत् तं गरुडे सुधीः ॥ ७२ ॥ पक्षावेतस्य कर्तव्यौ प्रासादाविनिर्गमौ । नासिकां वैनतेयस्य त्रिगर्भी कारयेदपि ॥ ८० ॥ गरुडः ॥ चतुःषष्टिपदे क्षेत्रे प्रासादं विभजेच्छुभम् । क्षेत्रार्थेन च सूत्रेण पृष्ठतो वृत्तमालिखेत् ।। ८१ ॥ भार्गश्चतुर्भिर्जखास्य मेखलाचार्धभागिका । पुरतःऽसूरसोयं(१) पृष्ठतश्च गजाकृतिः ॥ ८२ ॥ गजः ॥ 'सूकरास्योऽवम् 'इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy