________________
समराङ्गणसूत्रधारे सुत्तानितं(?) समाकृष्य पद्मकोशं समालिखेत् । स पश्चविंशतिहस्ता ज्येष्ठः षोडश मध्यमः ॥ ५९ ॥ कनीयान द्वादशकरच्छस्यो(?) विजानता । ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥ ६ ॥ मध्यमस्य तथार्धन कनीयान भागसंख्यया । भागषद्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता ॥ ६१ ॥ सप्तभागोच्छिता सा स्यान्मध्यमे सकनीयसि । सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः ॥ ६२ ।। स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो नृणाम् । इदानीं मुक्ताकोणस्य (मूल)क्ष्म घूमः स तु त्रिधा ।। ६३ ।। षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च ।। न्येष्ठः षोडशभिर्भागमध्यो द्वादशभिर्भवेत् ॥ ६४ ॥ कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः । मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥ ६ ॥ स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः । पश्चभागोन्नता जङ्घा द्वौ भागौ रथिका भवेत् ।। ६६ ।। भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका । शेषास्त्वर्धाधभागेन विधेयास्त(द्वी,स्य भूमिकाः ॥ ६७ ।। विधाय नवधा गर्भस्तैस्त्रयोदशभिर्भवेत् । जवापादोनपञ्चाशैराद्यैकाप्पणिको(?)भवेत् ।। ६८ ॥
मुक्तकोणः । विस्तारं दशधा कृत्वा पड्भागं मध्यमालिखेत् । कर्णा द्विर्भागिको(?)मध्यं चतुर्धा विभजेत् पुनः ॥ ६९ ॥ तद्वन्मध्ये कृतौ यंशौ भागिको वामदक्षिणौ । अङगुलीकरसंख्यातैविधेयो स्थनिर्गमः ।। ७० ॥ प्रागग्रीवैर्विकटः स्वष्टैः स्तम्भैः सद्भूपकर्मभिः) । एवं गुणसमायुक्तः श्रीवत्सः सुखदो भवेत् ॥ ७१॥ .
"Aho Shrut Gyanam"