________________
मेर्वादिषोडशप्रासादादिलक्षणो नाम पञ्चपञ्चाशोऽध्यायः । भद्रं मनोरमैश्वेह सिंहकर्णविभूषयेत् । पञ्चव्यासेन मूत्रेण पद्मकोशं समालिखेत् ।। ४६ ॥ लतातयो(?)भवेदेषां लताभिस्त प्रकल्पयेत् । मिश्रको मिश्रितैरङ्गैः शुद्धः स्याद् भूमिकान्वितः ॥ ४७ ।।
विमानः । नन्दनस्य भवेत् सीमा द्वात्रिंशद्धस्तनिर्मितः । अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥ ४८ ॥ भागेश्चतुर्भिर्गर्भोऽस्य शेष भित्यन्धकारिका । भद्र गर्भसम कार्य तदर्वेनास्य निर्गमः ।। ४९ ॥ द्वौ रथौ पावतो भूयः सर्वतः कर्णमत्रतः । पश्चभागोन्द्रिता जङ्गा मेखला भागसंमिता ।। ५० ॥ षद्(भभू )मिरेष भूमिः स्यादेकका द्वादशांशका। रेखास्कन्याण्डकादीनां कैलासे(न) समाकृतिः ॥ ५१ ॥ नन्दनो नन्दयत्येप समृद्धिा या हन्ति चापदः ।।
नन्ददनः । चतुरश्रीकृते क्षेत्रे पञ्चविंशति हस्तके ।। ५२ ॥ मूत्रपातं ततः कुर्यात् कर्मायनमुखायतम् (?) । ततः सीमार्धमत्रेण सम्यग् वृत्तं समालिखेत् ।। ५३ ॥ ततस्तदष्टाविंशत्या भजेद् भागैर्यथापदम् । निर्मापये(शालार्धनीत् तदर्धेन शाला)दिक्मूत्रसंश्रिताः ॥ ५४॥ तासां तु मध्यगाः कार्या एकैकस्य रथास्त्रयः। अन्ये चार्धरथाः कार्योः शालाकर्णसमाश्रिताः॥ ५५ ॥ भागषट्कोच्छिता जन भागार्धेन तु मेखलाः ।। भागेनान्तरपत्रं स्याद् भागं चोवृत्तमण्डकम् ।। ५६ ।। अर्धभागोच्छ्रिता जीवा विष्कम्भेन चतुष्पदाम् (१) । शिखरस्योच्छ्यो भागैरेकादशभिरिष्यते । ५७ ।। सर्वेषामेघ लतिना मात्रिधा द्विगुणो हि सः (१) । विस्ताराद् द्विगुणं सूत्रं स्कन्धाधं चापि षड्गुणम् ॥ ५८ ॥
"Aho Shrut.Gyanam"