________________
समराङ्गणसूत्रधारे विमानं विभजेत् प्राज्ञः श्रेयः पुष्टिसुखावहम् । भद्रेश्चतुर्भिस्तत् कुर्यात् कर्णप्राग्ग्रीवकैस्तथा ॥ ३२ ॥ पश्चभूमिर्भवत्येप यदि वा त्रिविधा भवेत् । हस्तास्त्रिंशद् भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ।। ३३ ॥ स्यादेकविंशतिहस्तात् कनीयान् षोडशाथवा । जातिशुद्धो भवेदेको मञ्जया वे परो भवेत् ।। ३४ ।। मिश्रकोऽन्यो विमानानामिति संख्या निधोदिता । ज्येष्ठो मिश्रकनिर्माणः स च कौलाशभद्रकृत ?) ।। ३५ ।। मध्यमो जातिशुद्धःस्यात् कनीयान् मञ्जरीयुतः । पञ्चभागयुतं भद्रं विस्तरेण प्रकीतितम् ।। ३६ ।। कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः । भागा) क्षोभणे कार्य तलिप तालान्तरं । ॥ ३७॥ गुप्तकणं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् । तस्माद् भद्रस्य निष्कशं (?) भागेनैकेन कारयेत् ॥ ३८ ॥ मिश्रकस्य चतुर्भागं भद्रं कुर्याद विचक्षणः । पञ्चभागोच्छ्रिता जसा खुएपिण्डकया सह ।। ३९ ।। द्विभा(गा) रथिका कार्या भूमिः स्थाचतुरंशका । . द्वितीयाधाशहीना च तृतीया भूमिरिष्यते ।। ४० ।। चतु(र्थे ?र्थी) तु त्रिभि गैरर्धहीना तु पञ्चमी । उदयो भूमिकाया यः कूटं कुर्यात् तदर्धतः ॥ ४१॥ अर्धेन कुम्भिकां कुर्यादुन्छालकसमन्विताम् । ऊध्र्वभवस्तु(?) पञ्चम्या वेदिका भागमुच्छ्रिता ॥ ४२ ॥ घण्टा षड्भागविस्तारा कायो भागद्वयोच्छ्रिता ।। घण्टोत्सेधं त्रिभिर्भागविभजेन तदनन्तरम् ॥ ४३ ॥ भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च । भागं कण्ठप्रदेशः स्याद् दण्टि कायाः समुच्छूितिः ॥ ४४ ॥ घण्टार्धन विधातव्या निभाना कलशोच्छितिः । सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत् तथा ॥ ४५ ॥
"Aho Shrut Gyanam"