________________
मेर्वादिषोडशप्रासादादिलक्षणो नाम पञ्चपञ्चाशोऽध्यायः । अस्मिन्नन्तरपत्रे तु मूत्रं दत्वा सुताडितम् । त्रिगुणेन लिखेत् तेन वेणुकोशं मनोरमम् ॥ २० ॥ अष्टभूम्युच्छ्यः श्रीमान् मञ्जर्या च विराजितः ।। उच्छ्यश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ।। २१ ।। कार्य षड्भूमिकं चास्य भद्रं भागानिर्गतम् । पाकः सिंहकर्णस्युः(१) समाप्ति यकेन च ॥ २२ ॥ कैलास एष कथितो विशेषेण हरप्रियः ।
कैलासः ।। इदानी सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥ २३ ॥ स स्यात् षडिशतिं हस्तान् परमः परिमाणतः ।। जठर बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥ २४ ॥ अडोत्सेधश्च कर्णो च यथा मेरोस्तथा स्मृताः । तथैव भद्रविस्तारैः कार्यो भागार्धनिर्गतः ॥ २५ ॥ रथिकैका चतुर्भागा ततः सार्धद्विभागिको । तासां परस्परं ज्ञेयो भागभागं विधीयते(?) ॥ २६ ॥ पभागाद् विस्तृतं कार्य शिखरं सप्तमोच्छ्रितम् । षभिदेशभिभोगेः स्यान्मूलजा स्कन्धविस्तृतिः (१) ।। २७ ॥ ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् । मूलमूत्रानुसारेणच्छेदः संयुज्यते यथा ॥ २८ ॥ अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी । मेरोरस्य च शृङ्गाणि सिंहकर्णविभूपयेत् ॥ २९ ॥ मञ्जरी पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् । जयं लक्ष्मी यशः कीर्ति सर्वा(नि?णी)टफलानि च ।। ३० ॥ करोति सर्वतो भद्रं सर्वतोभद्रकः कृतः ।
__ सर्वतोभद्रः ॥ धतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥ ३१ ॥
१. ' क. पाठः । २. 'काः' ख. पाटः। ३. यो भागं' क. पाठः। ४, 'बो' ख, पाठः । ५. ‘ाः ', ६. 'नी;' क, पाटः।
"Aho Shrut.Gyanam"