SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः । प्रासादभित्ति(:)पदिका पदविस्तृतमन्तरम् (?) ॥ ८ ॥ पंदिका वाह्यभित्तिः स्यादित्येप स तदा स्मृतः । द्विपदो वेदिकावन्धो जङ्घा पञ्चपदोदया ॥ ९ ॥ पदार्धन पदार्धेन मेखलान्तरपत्रक ।। शृंशोच्छ्रितिनिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥ १० ॥ शिखरस्यास्य कर्तव्यास्त ः पोडश भूमिकाः । स्कन्धोंऽशैविस्तृतः पभिरंशेनोन्छूितमण्डकम् ॥ ११ ॥ ग्रीवा वंशोच्छ्रिता कार्या शिरवरस्यादिविस्तृतौ । पगुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥ १२ ॥ विस्तृतेरपि भद्रायाः कुर्याद द्विगुणमुच्छ्यम् । कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ।। १३ ।। एवमेष चतुःशृङ्गश्चतुद्वारोपशोभितः । मेरुमरूपमः कार्यों वाञ्छता शुभमात्मनः ।। १४ ॥ सर्वस्वर्णमयं मेरुं यद् दत्त्वा पुण्यमाप्नुयात् । तमिष्टकाशैलमयं कृत्वा तदधिकं भजेत् ॥ १५ ॥ मेरुः ॥ चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम् । दशधा विभजेत् स स्यात् कैलासः पुण्यवर्धनः ॥ १६ ।। ब्रह्मकोष्ठगतो गर्भः शेष भित्त्यन्धकारिका । चतुर्भागं भवेद् भद्रं मूलकर्णी त्रिभागिको ॥ १७ ॥ सप्तभागोच्छ्रिता जया मेखला चार्धभागिका । भागेनान्तरपत्रं स्याद् भागेनाण्डकमुच्छ्रितम् ॥ १८ ॥ ग्रीवाग्रभागमुत्सेधाच्छिखरं दशकोच्छ्रितम् । अर्धपष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ।। १९ ।। १. वाटिका', २. 'विभागोच्छि', ३. 'षगणा तेनु सू', ४, 'पद. वात् पु', ५. 'वे', ६. 'ई' क. पाठः । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy