________________
पताकादिचतुष्पष्टिहस्तलक्षणं नाम न्यशीतितमोऽध्यायः । ३१७ (वचनं बलहा किञ्चित् समध्येनाधोमुखेन च!)। ग्रहणं गुणसूत्रस्य बाणलक्षनिरूपणम् ।। १७८ ।। ध्यान योगं च हृदेशवर्तिना संप्रदर्शयेत् ।। (स्तोकतिभिन्ना ये!) कर्तव्यः संयुतस्तूरसः पुरः।। १७९ ॥ कुत्सा(स्त?म्याकोमलेषु सदोषवचनेषु च । विवर्तितानः कर्तव्यो वामो विघटितो मनाक् ॥ १८ ॥ प्रधालरचने वर्तिग्रहणे नेत्ररञ्जने । आलेख्ये चैष कतैव्यस्तथालक्तकपीडने ॥ १८१॥ अस्य भ्रवौ च दृष्टिं च कुर्यादनुगतां ततः।
(इति सन्देशः ।।) समागताग्रसहिता यस्याङ्गुल्यो भवन्ति हि ॥ १८२ ॥ ऊर्ध्व हंसमुखस्येव स भवेन्मुकुलः करः । कर्तव्यः संहतोऽत्रातो मुकुलाम्भोरुहादिषु ॥ १८३ ।। पुरः प्रस(पर्यो)चलितः कर्तव्यो विटचुम्बकः ।
इति मुकुलः ॥ पद्मकोशस्य हस्तस्थ (अव)मुल्यः कुञ्चिता यदा ।। १८४ ।। ऊर्णनाभः स विज्ञेयश्चौर्यकेशग्रहादिषु । चौर्यकेशग्रहे चैप कर्तव्योऽधोमुखः (स?कारः ॥ १८५ ॥ शिरःकण्डूयने मूर्ध्नः प्रदेशे प्रचलन्मुहुः । (तयेकवर्ती?) विधातव्यः कुष्ठव्याधेर्निरूपणे ।। १८६ ।। अधोमुखः (स्थितेनाधः?) सिंहव्याघ्रादिरूपणे । कार्यो भ्रकुटिवक्त्रेण संयतोऽस्य ग्रहस्तथा ॥ १८७ ।। अत्रापि दृष्टिभ्रकर्म प्राग्वदेव विधीयते ।
इत्यूर्णनाभः ।। मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥ १८८ ।।
१. 'स्तोकाभिनये' इति स्यात् । २. "तियग्वर्ती' इति स्यात् । ३. इत उत्तरमव. शाष्ट्र लक्षणवाक्यं शेषे तलरथे कर्तव्ये ताम्रचूडकरेऽङ्गुली' इति मुन्युक्तदिशा पूरणीयम् ।
U Shrut Garam