________________
३१८
समरावणसूत्रधारे
मृगव्यालादिविश्वासं श्रासे) बालसन्धारणे तथा । अयं इस्तो विधातव्यो भर्त्सने भ्रुकुटीयुतः ॥ १८९ ॥ सिंहव्याघ्रा (दि) योगे च विच्युतः शब्दवान् भवेत् । दृष्टिभ्रुवौ च कर्तव्यौ न्यः) त्यमस्यानुगे बुधैः ॥ १९० ॥ अप (रे?(:) छिदितासंज्ञो (1) हस्तोऽयं परिकीर्तितः । इति ताम्रचूडः ॥ अ (लं?सं) युतानां हस्तानां चतुर्विंशतिरीरिता । १९१ ॥ त्रयोदशाथ कथ्यन्ते संयुता नामलक्षणैः । अञ्जलि कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ९९२ ॥ खट (को' का) वर्धमानश्वा (प्यस? प्युत्स) ङ्गनिपधावपि । डोल: पुष्पपुटस्तद्वन्मकरो गजदन्तकः || १९३ ॥ ( वैरित्थादश कथ्यन्ते संयता नामलक्षणैः । अञ्चल कपोतस्य कर्कटः स्वस्तिकस्तथा ॥ १९४ ॥
त्रयोदशैते कथिता हस्ताः संयुक्त संज्ञिताः ।
पताकाभ्यां तु हस्ताभ्यां संश्लेषात् सोऽञ्जलिः स्मृतः ॥ १९५ ॥
शिरश्च विनतं किञ्चित् तत्र कार्यं विपश्चिता । कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥ १९६ ॥ (पेक्षते न?) मित्राणां न स्थाननियमः (कुंथे?) |
इत्यञ्जलिः || उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहः ९हात् ) ॥ १९७ ॥ (सः) हस्तः कपोतनामा (स्यात्) कर्म चास्याभिधीयते । . (कुर्यात् प्रणमनं) वक्षः स्थितेन (तु) (न) मच्छिराः ॥ १९८ ॥
१. 'स् नि' इति स्यात् । २ अ लोकोऽशुद्धः पुनरावर्तितश्च । अस्य स्थाने 'अवहित्याभिधान वर्धमानस्तथापरः' इत्येवमेकम निवेशनीयम् । ३. 'वक्षः स्थितेन इति स्यात् । ४. 'स्त्रियाः' इति स्थात्, 'वक्षःस्त्र मित्राणां स्त्रीणां कार्यो यथेप्सितः ' इति नाट्यशास्त्रे दर्शनात् । इह षष्ठयन्तस्य 'नमस्कारे' इति प्रक्रमागतसप्तम्यन्तेन सम्बन्धो ज्ञेयः ।
"Aho Shrut Gyanam"