SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पताकादिचतुःषष्टिहस्तलक्षणं नाम अशीतितमोऽध्यायः । ३१५ कचित् प्रभावता कापि (भ्रमता?) मृदुता कचित् । प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥ १५६ ॥ प्राज्ञैस्तथा तथा शीर्षेऽभिनेयान्यु(त्यात पाणिना। भ्रदृष्टि(चकुरगोश्च?) कार्यास्तदनुसारतः ।। १५७ ।। मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत् । किञ्चिन्नतभ्रः शिरसा परिमण्डलितेन च ।। १५८ ॥ तेन (भूप्रदर्शयेत् कष्टष्णं) नीलं च परिमृद्गता । चतुरेण कपोतादीन् वर्णान् स्वाभाविकेन च ॥ १५९ ॥ इति चतुरः ।। मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये (प्रकीर्णो + अगुल्यो?) भ्रमरे करे ॥ १६० ॥ कुमुदोत्पलपझानां ग्रहणं तेन पाणिना । तथैव दीर्घटन्तानामन्येषामपि रूपयेत् ॥ १६१ ॥ कर्णपूरो विधातव्यः कर्णदेशे स्थितेन च । दृष्टिभ्रवौ चाभिमानये) तेषां कार्य करानुगे ॥ १६२ ।। इति श्रम(रार):॥ तर्जनीमध्यमाङ्गुष्ठा(भूस्खे)ताग्निस्था निरन्तरा(क)। भवेयुहंसवक्त्रस्य (शेष सम्प्रसारिता) ।। १६३ ॥ किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोरिक्षप्य च भ्रवौ । निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥ १६४ ॥ कर्तव्यो:व्ये)ऽभिनये चैषां दृग्वौ च करानुगे । । इति हंसवक्त्रः ।। अगुल्यः प्रस्तास्तिस्रस्तथाचोर्ध्वा कनीयसी ।। १६५ ॥ अङ्गुष्ठः कुश्चितश्चैव हंसपक्ष इति स्मृतः। उत्तानेन बहिस्तियग् ग्रीवाय जलभूषणम् (१) ।। १६६ ॥ 1. 'प्रकीर्ण द्वे अगुल्यो' इति स्यात् । २. 'शेष द्वे सम्प्रसारिते' इति स्यात् । ३. 'स्तिर्यङ् निवापजलमोक्षणम् । इति स्यात् । "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy